पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(86) अनसूया-तथा, यथा भणसि । प्रियंवदा--(प्रकाशम् ) सखि, दिष्टयानुरूपस्तेऽभिनिवेशः । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते ? राजा-किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते । अनसूया-कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः ? प्रियंवदा-निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् । अनसूया-कथमिव ? प्रियंवदा–ननु स राजर्षिरेतस्यां स्निग्धदृष्टया सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते । राजा-सत्यमित्थंभूत एवास्मि । तथाहि-- इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः । अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धना- कनकवलयं स्त्रस्तं स्त्रस्तं मया प्रतिसार्यते ॥ १० ॥ प्रियंवदा-(विचिन्त्य ) हला, मदनलेखोऽस्य क्रियताम् । इमं देवप्रसादस्यापदेशेन सुमनोगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि । अनसूया-रोचते मे सुकुमारोऽयं प्रयोगः । किं वा शकुन्तला भणति ? सकुन्तला- -को नियोगो विकल्प्यते ? प्रियंवदा-तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावल्ललितपदबन्धनम् ।