पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(85) क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा। शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ ७ ॥ शकुन्तला-सखि, कस्य वान्यस्य कथायिष्यामि ? आयासयित्रीदानी वां भविष्यामि । उभे—अत एव खलु निर्बन्धः । स्निग्धजनसंविभक्तं हि दुःख सह्यवेदनं भवति । .राजा-- पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण- मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ ८ ॥ शकुन्तला–सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः, तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।। राजा—(सहर्षम् ) श्रुतं श्रोतव्यम् । स्मर एव तापहेतुर्निर्वापायता स एव मे जातः । दिवस इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ ९ ॥ शकुन्तला-तद्यदि वामनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चतं मे तिलोदकम् । राजा-संशयच्छेदि वचनम् । मियंवदा--( जनान्तिकम् ) अनसूये, दूरगतमन्मथाक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युतमस्या अभिलाषोऽभिनन्दितुम् ।