पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 88 ) तव न जाने हृदयं मम पुनः कामो दिवापि रात्रावपि । निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥ १३ ॥ राजा-(सहसोपसृत्य ) तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥१४॥ सख्यौ--( सहर्षम् ) स्वागतमविलम्बिनो मनोरथस्य । (शकुन्तलाभ्युत्थातुमिच्छति ।) राजा-अलमलमायासेन । संदृष्टकुसुमशयनान्याशुक्लान्तविसभङ्गसुरभीणि । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १५ ॥ अनसूया-इतः शिलातलैकदेशमलंकरोतु वयस्यः । ( राजोपविशति । शकुन्तला सलज्जा तिष्ठति ।) प्रियंवदा-द्वयोर्ननु युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति । राजा-भद्रे, नैतत्परिहार्यम् । विवक्षितं ह्नुक्तमनुतापं जनयति । प्रियंवदा-आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येव युष्माकं धर्मः । राजा-नास्मात्परम् । प्रियंवदा-तेन हीयमावयोः प्रियसखी त्वामुद्विश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम् । राजा-भद्रे, साधारणोऽयं प्रणयः, सर्वथानुगृहीतोऽस्मि । शकुन्तला-(प्रियंवदामवलोक्य ) हला, किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ।