सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 141 ) भवतु । यावदेते मानसोत्सुकाः पतत्रिणः सरसोऽम्मान्नोत्पतन्ति तदेतेभ्यः प्रियाप्रवृत्तिरवगमयितव्या । ( वलन्तिकयोपसृत्य ) अहो = विहङ्गमराज, पश्चात्सरः प्रतिगमिप्यसि मानसं त्वं पाथेयमुत्सृज विसं ग्रहणाय भूयः । मां तावदुद्धर शुचो दयिताप्रवृत्त्या स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव ॥ ३१ ॥ यथोन्मुखो विलोकयति मानमोत्सुकेन मया न लक्षितेत्येवं वचनमा- ( उपविश्य चर्चरी।) रे रे हंस किं गोप्यते ? (इति नर्तित्वा उत्थाय ।) यदि हंस गता ते नतभूः सरसो रोधसि दृक्पथं प्रिया मे । मदखेलपढदं कथं नु तस्याः सकलं चोर गतं त्वया गृहीतम् ।। ३२ ॥ (चर्चरी।) गत्यनुसारेण मया लक्ष्यते । ( चर्चरिकयोपसृत्याञ्जलिं बद्ध्वा) हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता । विभावितैकदेशेन देयं यदभियुज्यते ॥ ३३ ॥ ( पुनश्चर्चरी) कस्मात्त्वया शिक्षितमेतद्गतिलालस सा परं दृष्टा जघनभरालसा ॥ ३४ ॥ 1