( 140 ) (संसंभ्रममुपविट्य अनन्तरं जानुभ्यां स्थित्वा 'कुपिता' इति पठित विलोक्य च।) कथं कथाविच्छेदकारिणी स्वकार्य एव व्यासक्ता ? महदपि परदुःखं शीतलं सम्यगाहुः प्रणयमगणयित्वा यन्ममापद्गतस्य । अधरमिव मदान्धा पातुमेषा प्रवृत्ता फलमभिनवपाकं राजजम्बूद्रुमस्य ॥ २७ ॥ तदेवंगतेऽपि प्रियेव मे मञ्जुस्वनेति न मे कोपोऽस्याम् । सुखमास्त भवती । साधयामम्तावत् । (उत्थाय द्विपदिकया परिक्रम्यावलोक्य च) अये. दक्षिणेन वनधारां प्रियाचरणनिक्षेपशंसी नूपुरशब्दः। यावदेन- मनुगच्छामि । (परिक्रम्य) प्रियतमाविरहक्लान्तवदनः अविरलवाप्जलाकुलनयनः । दुःसहदुःखविसंष्ठुलगमनः प्रसृतगुरुतापदीप्ताङ्गः। अधिक दूतमानमो दरीं गतः कानने परिभ्रमति गजेन्द्रः॥ २८ ॥ (अनन्तरे द्विपदिकया दिशोऽवलोक्य ।) प्रियकरिणीवियुक्तो गुरुशोकानलदीप्तः । बाष्पजलाकुललोचनः करिवरो भ्रमति समाकुलः ॥ २९ ॥ (सकरुणम् ) हा धिक् कष्टम् । मेघश्यामा दिशो दृष्ट्वा मानसोत्सुकचेतसा । कूजितं राजहंसेन नेदं नूपुरशिञ्जितम् ॥ ३० ॥
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१४६
दिखावट