महाभारतम्-04-विराटपर्व-078

विकिस्रोतः तः
← विराटपर्व-077 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-078
वेदव्यासः
उद्योगपर्व →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अज्ञातवासपरिसमापनानन्तरमुपप्लाव्यनगरे वसद्भिः पाण्डवैर्दूतमुखेन समाहूतै रामकृष्णादिभिः सुभद्राभिमन्युप्रभृतिभिः सहोपप्लाव्यं प्रत्यागमनम् ।। 1 ।। तथा द्रौपदेयादिभिः सह द्रुपदादिभिरागमनम् ।। 2 ।। तत उत्तरयाऽभिमन्योरुद्वाहः ।। 3 ।।










वैशंपायन उवाच।

4-78-1x

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः।
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे ।।

4-78-1a
4-78-1b

दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ।।

4-78-2a
4-78-2b

तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः ।
तत्रागमन्महाबाहुर्वनमाली बलानुजः ।।

4-78-3a
4-78-3b

तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः।
दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम्।
अभिमन्युं समादाय रामेण सहितस्तदा ।।

4-78-4a
4-78-4b
4-78-4c

सर्वयादवमुख्यैश्च संवृतः परवीरहा।
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ ।।

4-78-5a
4-78-5b

कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः।
अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च।
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः ।।

4-78-6a
4-78-6b
4-78-6c

अभिमन्युमुपादाय सह मात्रा परन्तपाः।
कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः ।।

4-78-7a
4-78-7b

इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः ।।

4-78-8a
4-78-8b

दशनागसहस्राणि हयानां द्विगुणं तथा।
रथानां नियुतं पूर्णं निखर्वं च पदातयः ।।

4-78-9a
4-78-9b

वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः।
अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम् ।।

4-78-10a
4-78-10b

वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा।
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् ।।

4-78-11a
4-78-11b

शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् ।
ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः।
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः ।।

4-78-12a
4-78-12b
4-78-12c

पाण्डवा ऊचुः।

4-78-13x

तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः।
त्रयोदशोपि दाशार्ह यथा स समयः कृतः ।।

4-78-13a
4-78-13b

उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन।
रक्षस्व देवदेवेश त्वामार्य शरणं गताः ।।

4-78-14a
4-78-14b

वैशंपायन उवाच।

4-78-15x

तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः।
विराटस्य सहायांस्तान्सर्वयादवसंवृतः।।

4-78-15a
4-78-15b

यथार्हं पूजयामास मुदा परमया युतः।
वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे ।।

4-78-16a
4-78-16b

कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा।
तामुद्यम्य सुकेशान्तां नयने परिमृज्य च ।
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ ।।

4-78-17a
4-78-17b
4-78-17c

मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान्।
अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम् ।।

4-78-18a
4-78-18b

युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः।
अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे ।।

4-78-19a
4-78-19b

सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते।
इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम्।
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा ।।

4-78-20a
4-78-20b
4-78-20c

काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम्।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ।।

4-78-21a
4-78-21b

अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ।।

4-78-22a
4-78-22b

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः।
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः ।।

4-78-23a
4-78-23b

ततः शतसहस्राणि प्रयुतान्यर्बुदानि च।
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम्।।

4-78-24a
4-78-24b

समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक्।
आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः ।
वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः ।।

4-78-25a
4-78-25b
4-78-25c

तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः।
पूजयामास विधिवद्यथार्हं राजसत्तमान्।।

4-78-26a
4-78-26b

पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्।
स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः ।।

4-78-27a
4-78-27b

राजानो राजपुत्राश्च निवृत्ते समये तथा।
यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः।
आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा ।।

4-78-28a
4-78-28b
4-78-28c

सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह।
विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः।।

4-78-29a
4-78-29b

ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा।
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि ।।

4-78-30a
4-78-30b

उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा।
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् ।।

4-78-31a
4-78-31b

गायनाख्यानशीलाश्च नटा वैतालिकास्तथा।
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः।।

4-78-32a
4-78-32b

स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले।
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः ।।

4-78-33a
4-78-33b

सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः।
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः।।

4-78-34a
4-78-34b

वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलंकृताः।
सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका ।।

4-78-35a
4-78-35b

परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलंकृताम्।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ।।

4-78-36a
4-78-36b

भृङ्गारुं तु समादाय सौवर्णं जलपूरितम्।
पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम्।
स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः ।।

4-78-37a
4-78-37b
4-78-37c

तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः ।
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा ।।

4-78-38a
4-78-38b

तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन्।
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः ।।

4-78-39a
4-78-39b

द्रुपदश्च विराटश्च शिखण्डी च महाबलः ।
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः ।।

4-78-40a
4-78-40b

सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा ।।

4-78-41a
4-78-41b

तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः ।
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे ।।

4-78-42a
4-78-42b

प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् ।
विवाहं कारयामास सौभद्रस्य महात्मनः ।।

4-78-43a
4-78-43b

ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः ।
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा ।।

4-78-44a
4-78-44b

धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः ।
अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् ।।

4-78-45a
4-78-45b

ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत्।
तस्मै शतसहस्राणि हयानां वातरंहसाम् ।।

4-78-46a
4-78-46b

द्वे च नागशते मुख्ये धनं बहुविधं तदा।
प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् ।।

4-78-47a
4-78-47b

पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः ।
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् ।।

4-78-48a
4-78-48b

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ।।

4-78-49a
4-78-49b

गोसहस्राणि वस्त्राणि रत्नानि विविधानि च।
भूषणानि च सर्वाणि यानानि शयनानि च ।।

4-78-50a
4-78-50b

नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः ।।

4-78-51a

तन्महोत्सवसंकाशं हृष्टपुष्टजनाकुलम्।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ।।

4-78-52a
4-78-52b

पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह।
विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे ।
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा ।।

4-78-53a
4-78-53b
4-78-53c

जनमेजय उवाच।

4-78-54x

वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः।
तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् ।।

4-78-54a
4-78-54b

।। इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां
वैयासिक्यां विराटपर्वणि वैवाहिकपर्वणि
अष्टसप्ततितमोऽध्यायः ।।

।। वैवाहिकपर्व समाप्तम् ।। 5 ।। ।। समाप्तं च विराटपर्व ।। 4 ।।

[सम्पाद्यताम्]

अतः परमुद्योगपर्व भविष्यति। तस्यायमाद्यः श्लोकः । कृत्वा विवाहं तु कुरुप्रवीरा। स्तदाऽभिमन्योर्मुदिताः सपक्षाः। विश्रम्य रात्रावुषसि प्रतीताः। सभां विराटस्य ततोऽभिजग्मुः ।।

विराटपर्व-077 पुटाग्रे अल्लिखितम्। उद्योगपर्व