यतोऽयमहमस्मीतिवरूपानुसंधानरूपा स्मृतिस्त्वत्प्रसादान्मया लब्धाऽतः स्थितोऽस्मि
युद्धायोत्थितोऽस्मि, गतो धर्मविषयः संदेहो यस्य सोऽहं तवाऽऽज्ञां करिष्य
इति ॥ ७३ ॥
म०टी०-समाप्तः शास्त्रार्थः, कथासंबन्धमिदानीमनुसंदधानः-
संजय उवाच- |
अद्भुतं चेतसो विस्मयाख्यविकारकरं लोकेष्वसंभाव्यमानत्वात् । रोमहर्षणं शरीरस्य रोमाञ्चाख्यविकारकरम् । तेनातिपरिपुष्टत्वं विस्मयस्य दर्शितम् । स्पष्टमन्यत्॥७४॥
श्री० टी०-तदेवं धृतराष्ट्र प्रति श्रीकृष्णार्जुनसंवादं कथयित्वा प्रस्तुतां कथामनुसंदधानः संजय उवाच---इतीति । रोमहर्षणं रोमाञ्चकरं संवादमश्रौषं श्रुतवानहम् । स्पष्टमन्यत् ॥ ७४॥
म० टी०-व्यवहितस्यापि भगवदर्जुनसंवादस्य श्रवणयोग्यतामात्मन आह-
व्यासदत्तदिव्यचक्षुःश्रोत्रादिलाभरूपाध्यासप्रसादादिमं परं गुह्यं योग योगाव्यभि“चारिहेतुं संवादं योगेश्वरात्कृष्णात्स्वयं स्वेन पारमेश्वरेण रूपेण कथयतः साक्षादेवाह श्रुतवानस्मि न परम्परयेति स्वभाग्यमभिनन्दति । अत्रेममिति पुंलिङ्गपाठो भाष्यकारैर्व्याख्यातः । एतदिति नपुंसकलिङ्गपाठस्यैव योगशब्दसामानाधिकरण्येन व्याख्यानमिदमिति तथ्याख्यातारः ॥ ७९ ॥
श्री०टी०-आत्मनस्तच्छ्वणे संभावनामाह-व्यासप्रसादादिति । भगवता व्यासेन दिव्यं चक्षुःश्रोत्रादि मह्यं दत्तम् । अतो व्यासस्य प्रसादादेतदहं श्रुतवानस्मि । किं तदित्यपेक्षायामाह-परं योगम् । परत्वमाविष्करोति-योगेश्वराच्छ्रीकृष्णात्स्वयमेव साक्षात्कथयतः श्रुतवानिति ॥ ७५ ॥
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ॥ |
+ श्रीधरटीकानुरोधिमूलपुस्तकेषु “ एतद्गृह्यमहं परम्" इत्येव पाठः ।