पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०७२-७३]
५१५
श्रीमद्भगवद्गीता।


मुक्तः पापैः शुभान्प्रशस्ताल्लोकान्पुण्यकर्मणामश्वमेधादिकृतां प्राप्नुयात् । ज्ञानवतस्तु किं वाच्यमिति भावः ॥ ७१ ॥

 श्री० टी०-अन्यस्य जपतो योऽन्यः कश्चिच्छृणोति तस्यापि फलमाह ---- श्रद्धावानिति । यो नरः श्रद्धायुक्तः केवलं शृणुयादपि । श्रद्धावानपि कश्चिस्किमर्थमुच्चैर्जपति अबद्धं जपतीति वा दोषदृष्टिं करोति तयावृत्त्यर्थमाह-अनसूयश्चास्यारहितो यः शृणुयात्सोऽपि सर्वैः पापैर्मुक्तः सन्नश्वमेधादिपुण्यकृतां लोकान्प्राप्नुयात्॥७१॥

 म० टी०-शिष्यस्य ज्ञानोत्पत्तिपर्यन्तं गुरुणा कारुणिकेन प्रयासः कार्य इति गुरोर्धर्मं शिक्षयितुं सर्वज्ञोऽपि पुनरुपदेशापेक्षा नास्तीति ज्ञापनाय पृच्छति-

कञ्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ॥
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥ ७२ ॥

 कच्चिदिति प्रश्ने । एतन्मयोक्तं गीताशास्त्रमेकाग्रेण व्यासङ्गरहितेन चेतसा हे पार्थ त्वया किं श्रुतमर्थतोऽवधारितम् । कचित्किमज्ञानसंमोहोऽज्ञाननिमित्तः संमोहो विपर्ययोऽज्ञाननाशात्प्रनष्टः प्रकर्षेण पुनरुत्पत्तिविरोधित्वेन नष्टस्ते तव हे धनंजय । यदि स्यात्पुनरुपदेशं करिष्यामीत्यभिप्रायः ॥ ७२ ॥

 श्री० टी०-सम्यग्बोधानुत्पत्तौ पुनरुपदेक्ष्यामीत्याशयेनाऽऽह-कञ्चिदिति । कच्चिदिति प्रश्नार्थे । अज्ञानसंमोहस्तत्त्वाज्ञानकृतो विपर्ययः । स्पष्टमन्यत् ॥ ७२ ॥

 म०टी०-एवं पृष्टः कृतार्थत्वेन पुनरुपदेशानपेक्षतामात्मनः-

अर्जुन उवाच-
 नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत ॥
 स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ ७३ ॥

नष्ट उच्छिन्नो मोहोऽज्ञानकृतो विपर्ययः । तन्नाशकमाह-स्मृतिर्लब्धा त्वत्प्रसादान्मया । यस्मात्त्वदुपदेशादात्मज्ञानं लब्धं सर्वसंशयानाक्रान्ततया प्राप्तमतः सर्वप्रतिबन्धशून्येनाऽऽत्मज्ञानेन मोहो नष्ट इत्यर्थः । हेऽच्युताऽऽत्मत्वेन निश्चितत्वात् । वियोगायोग्यस्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष इति श्रुत्यर्थमनुभवन्नाह-स्थितोऽस्मि गतसंदेहो निवृत्तसर्वसंदेहः स्थितोऽस्मि युद्धकर्तव्यतारूपे त्वच्छासने । यावज्जीवं च करिष्ये वचनं तव भगवतः परमगुरोराज्ञां पालयिष्यामीति प्रयाससाफल्यकथनेन भगवन्तमर्जुनः परितोषयामास । अनेन गीताशास्त्राध्यायिनो भगवत्प्रसादादवश्यं मोक्षफलपर्यन्तं ज्ञानं भवतीति शास्त्रफलमुपसंहृतं तद्धास्य विजज्ञावितिवत् ॥ ७३ ॥

 श्री०टी०-कृतार्थः सन्नर्जुन उवाच-नष्ट इति । आत्मविषयो मोहो नष्टः ।