पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०७७-७८]
५१७
श्रीमद्भगवद्गीता।


 म० टी०-पुण्यं श्रवणेनापि सर्वपापहरं केशवार्जुनयोरिमं संवादमद्भुतं न केवलं श्रुतवानस्मि किंतु संस्मृत्य संस्मृत्य, संभ्रमे द्विरुक्तिः । मुहुर्मुहुर्वारं वारं हृष्यामि च हर्ष प्राप्नोमि च, प्रतिक्षणं रोमाञ्चितो भवामीति वा ॥ ७६ ॥

 श्री०टी०-किंच-राजनिति । हृष्यामि रोमाञ्चितो भवामि हर्षं प्राप्नोमीति वा। स्पष्टमन्यत् ॥ ७६ ॥

 म०टी०-यद्विश्वरूपाख्यं सगुणं रूपमर्जुनाय ध्यानार्थं भगवान्दर्शयामास तदिदानीमनुसंधान आह-

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः॥
विस्मयो में महानाजन्हृष्यामि च पुनः पुनः ॥७७॥

 तदिति विश्वरूपं हे; राजन्मम महाविस्मयोऽत एव दृष्यामि चाहम् । स्पष्टमन्यत् ॥ ७७॥

 श्री०टी०-किं च - तच्चेति । तदिति विश्वरूपं निर्दिशति । स्पष्टमन्यत् ॥७७॥

 म० टी०-एवं च सति स्वपुत्रे विजयादिसंभावनां परित्यजेत्याह-

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ॥
तत्र श्रीविजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥

इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगो

नामाष्टादशोऽध्यायः ॥ १८ ॥

 यत्र यस्मिन्युधिष्ठिरपक्षे योगेश्वरः सर्वयोगसिद्धीनामीश्वरः सर्वज्ञः सर्वशक्तिभंगवान्कृष्णो भक्तदुःखकर्षणस्तिष्ठति नारायणः, यत्र पार्थो धनुर्धरो यत्र गाण्डीवधन्वा तिष्ठत्यर्जुनो नरः, तत्र नरनारायणाधिष्ठिते तस्मिन्युधिष्ठिरपक्षे श्री राज्यलक्ष्मीविजयः शत्रुपराजयनिमित्त उत्कर्षो भूतिरुत्तरोत्तरं राज्यलक्ष्म्या विवृद्धिर्ध्रुवाऽवश्यंभाविनीति सर्वत्रान्वयः । नीतिर्नयः । एवं मम मतिनिश्चयः । तस्माद्वृथा पुत्रविजयाशां त्यक्त्वा भगवदनुगृहीतैर्लक्ष्मीविजयादिभाग्भिः पाण्डवैः सह संधिरेव विधीयतामित्यभिप्रायः॥७८॥

वंशीविभूषितकरान्नवनीरदाभात्पीताम्बरादरुणबिम्बफलाधरोष्ठात् ।
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्कृष्णात्परं किमपि तत्त्वमहं न जाने ॥ १॥

काण्डत्रयात्मकं शास्त्रं गीताख्यं येन निर्मितम् ।
आदिमध्यान्तषट्केषु तस्मै भगवते नमः ॥२॥