लिङ्गम् ३३७
१४१. इयं नौरियं चार्धनावी यां नौकेति व्यवहरन्ति ।
१४२. न च नरकाण्येव न सन्ति (उदयनः) ।
१४३. स्वगतेनैव कालिम्ना दर्पणं मलिनं यथा । अज्ञानेनावृतं ज्ञानं
तेन मुह्यन्ति जन्तवः ।। (मानसोल्लासे विश्वरूपाचार्यः)
१४४. सा तिथिस्तदहोरात्रं स योग: स च चन्द्रमाः । लग्नं तदेव
विख्यातं यत्र संस्मर्यते हरिः ।। (श्रीमद्भागवते)
१४५. अट्टशूला जनपदा: शिवशूलाश्चतुष्पथाः (हरि० ३।३।१२, भा०
वन० १८८।४२) ।
१४६ . गजैर्गजा हयैरश्वाः पादाताश्च पदातिभिः । रथै रथा विमिश्राश्च
योधा युयुधिरे नृप (हरि० २।३६।५) ।।
१४७. पिठरं क्वथदतिमात्रं स्वपार्श्वानेव दहतितराम् (पञ्चतन्त्र) ।
१४८. आश्रमाणि च चत्वारि कर्मद्वाराणि मानद (ब्र० पु०८८।१४) ।
१४१. अर्धाच्चेति टच्समासान्त: । परवल्लिङ्गतायां टित्त्वान्डीपि अर्ध-
नावीति प्राप्नोति, लोकाश्रयत्वाल्लिङ्गस्येति न भवति । अर्धना-
वम् इत्येव प्रयोगः ।
१४२. नरकशब्दो नपुंसकमिति भ्रमति न्यायाचार्यः ।
१४३. दर्पणशब्द आदर्शेऽर्थे पुंसि रूढः । रूढेश्चानादरो न युक्तः ।
१४४. अहोरात्रमित्यत्र नपुंसकत्वं पाणिनीया न सहन्ते । रात्राह्नाहाः
पुंसीति भगवत आचार्यस्य शासनं जागर्ति ।
१४५. चतुष्पथा इति न सिध्यति । पथः संख्याव्ययादेः क्लीबतेष्यत इति
पुंस्त्वमसाधु । कृतसमासान्तस्य पथशब्दस्योत्तरपदस्य क्लीबता-
नेन वचनेन विधीयते । चतुर्णां पथां समाहारश्चतुष्पथम् ।
१४६. पदातीनां समूहः पादातम् । भिक्षादिभ्योऽण् । समूहार्थास्तद्धिताः
प्रायेण नपुंसके-स्त्रैणम्, राजकम्, राजन्यकम् , कैदार्ययम्, कैदा-
रिकम्, धेनुकम्, हास्तिकम्, इत्यादयो यथा, विशिष्य चाण्णन्ता
भैक्षादयः । अमरोऽगि पादातं पत्तिसंहतिरिति पपाठ ।
१४७. पिठरशब्दः पुंसि नियतः । तथा चामरः पठति-पिठरः स्थाल्यु-
खा कुण्डम् इति । पार्श्वमस्त्री तयोरध इति पार्श्वशब्द उभय-
लिङ्गः ।
१४८. आश्रमशब्दोऽर्धर्चादिषु पठित इति पुन्नपुंसकयोः साधुः ।