महाभारतम्-04-विराटपर्व-068

विकिस्रोतः तः
← विराटपर्व-067 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-068
वेदव्यासः
विराटपर्व-069 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेनोत्तरंप्रति युधिष्ठिरादितत्वप्रकाशनप्रतिषेधनम् ।। 1 ।। तथा श्मशानमेत्य शमीतरौ गाण्डिवादिनिधानपूर्वकं पुनर्बृहन्नलावेषपरिग्रहेण सारथ्यकरणम् ।। 2 ।। उत्तरेणार्जुनचोदनया स्वजयोद्धोषणाय नगरंप्रति दूतप्रेषणम् ।। 3 ।।






वैशंपायन उवाच।

4-68-1x

ततो विजित्य संग्रामे कुरुगोवृषभेक्षणः।
समानयामास तदा विराटस्य धनं महत् ।।

4-68-1a
4-68-1b

मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः।
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ।
भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः ।।

4-68-2a
4-68-2b
4-68-2c

मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा।
क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः ।
ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे ।।

4-68-3a
4-68-3b
4-68-3c

प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम्।
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः ।।

4-68-4a
4-68-4b

अर्जुन उवाच।

4-68-5x

अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान्।
न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन् ।।

4-68-5a
4-68-5b

भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा।
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि ।।

4-68-6a
4-68-6b

तस्य तामभयां वाचं श्रुत्वा योधाः समागताः ।
आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन् ।।

4-68-7a
4-68-7b

ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः ।
प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम् ।।

4-68-8a
4-68-8b

एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति ।।

4-68-9a

स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता।
यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः ।।

4-68-10a
4-68-10b

तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन् ।।

4-68-11a

पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति।
तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः ।।

4-68-12a
4-68-12b

मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः ।
एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि ।।

4-68-13a
4-68-13b

र उवाच ।

4-68-14x

यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः।
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन् ।।

4-68-14a
4-68-14b

पायन उवाच।

4-68-15x

स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम्।
श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः ।।

4-68-15a
4-68-15b

ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात।
तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः ।।

4-68-16a
4-68-16b

निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा।
प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा ।।

4-68-17a
4-68-17b

पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता।
विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य।
बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम् ।।

4-68-18a
4-68-18b
4-68-18c

वैशंपायन उवाच।

4-68-19x

ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः ।
परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः ।।

4-68-19a
4-68-19b

पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत्।
राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः।
गोकुलानि महाबाहो वीरगोपालकैः सह ।।

4-68-20a
4-68-20b
4-68-20c

ततोऽपराह्णे यास्यामो विराटनगरं प्रति।
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः।

4-68-21a
4-68-21b

गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया।
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ।।

4-68-22a
4-68-22b

उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः।
वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम ।।

4-68-23a
4-68-23b

मया जिता सा ध्वजिनी कुरुणं
मया च गावो विजिता द्विषद्भ्यः।
एवं तु कामं नगरं प्रविश्य
मयाऽऽत्मना कर्म कृतं ब्रवीत ।।

4-68-24a
4-68-24b
4-68-24c
4-68-24d

विराटपर्व-067 पुटाग्रे अल्लिखितम्। विराटपर्व-069