३२ शब्दापशब्दविवेके
१५. पापीयं नापिती । इयं हि यत्र तत्र विग्राहयति लोकान् ।
१६.वीरा यासां पतयः ता वीरपतय इति वाच्याः स्युर्वीरपत्न्य इति
वा । अत्र प्रमाणपुरःसरं स्वं मतं ब्रूहि ।
१७. त्रिपदा गायत्री भवति न तु त्रिपात् त्रिपदी वेति प्रमाणपुरः-
सरमुपपाद्यताम् ।
१८. अहो रम्यो वसन्तः । किमपि मञ्जुलं परभृता व्याहरन्ति सहचरैः
समेताः ।
१९. ह्रीनिषेवाः१ कुलाङ्गना: पादार्पितेक्षणाः सत्यो यान्ति ।
२०. धमस्याम्नातृषु पर्षत्सु२ रागद्वेषविनिर्मुक्ता ब्राह्मणा इष्यन्ते।
२१. ख्रिस्तस्यैकोनविंश्याः शत्याः प्रथमार्धे श्रीदयानन्दनामा यति-
र्बभूव यः प्रचरति हिन्दुमते बहु परिशोध्यं परिवर्त्य च ददर्श ।
२२. ऋचया यदुक्तपूर्वं तदेव साम्नोच्यते । अत एव ऋच्यध्यूढं साम
गीयत इति च्छन्दोगा आमनन्ति ।
२३. इयं हि मे पाणिगृहीतिः सततं मय्यनुरक्ता नान्यं मनसाऽपि
चिन्तयति।
१५. पापेयं नापितीति साधु । केवलमामकभागधेयपापेत्यादिना संज्ञा- छन्दसोरेव ङीब्विधानात् । १६. नित्यं सपत्न्यादिष्विति वीरपत्न्य इत्येव साधु । १७. टाबृचि इति त्रिपदेत्येव साधु । असाधुनी च त्रिपात् त्रिपदी चेति रूपे । १८. परभृता इति स्त्रियां बहुत्वे प्रयोगः । क्रियाशब्दविवक्षायां जातेरस्त्रीविषयादिति ङीष् न । १९. पादार्पितेक्षणा इति बह्वज्लक्षणे ङीष्-प्रतिषेधे टापि सिद्धम् । २०. ऋन्नेभ्यो ङीप् इत्याम्नात्रीषु इत्येव साधु । पर्षच्छब्दो हि स्त्री । २१. शत्या इत्यत्र ङीब् दुर्घटः । शतमिति नित्यं नपुंसकम् । शत- कस्येति तु वक्तव्यम्, विशेषणलिङ्गपरिणामश्च कार्यः । २२. ऋचेति साधु । आबन्ते व्यवहारो मृग्यः । २३. बहुव्रीहेश्चान्तोदात्तात्, पाणिगृहीत्यादीनामर्थविशेष इति शास्त्राभ्यां ङीषि पाणिगृहीती इत्येव साधु । १. लज्जावत्यः । २. परिषत्सु।