२ शब्दापशब्दविवेके
४. अहोऽस्मि परमप्रीतो यस्य मे तादृशः सुतः ।
५. एहि पुत्त्रक । परिष्वजस्व मां पीडितम् ।' चिरमुत्सुकोऽस्मि ते
दर्शनेन ।२
६. उभेऽपि भगिन्यौ सङ्गीते विशारदे, विशेषतश्च प्रवीणे वीणायाम् ।
७. सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति ।
स्वयं कृते पुण्यपाप अनुवर्तमानो जायस्व३ म्रियस्वेत्येवायं
संसरति४ देही ।
६. नाभिप्रैमस्त्वं धर्ममेव सततमनुरुन्ध्या इति, अर्थकामावपि यथा-
कालं जुषस्व।
१०. अथ त अब्रुवन्मनुम्-भगवन्व्याख्याहि नो वर्णधर्मानिति ।
११. अद्यत्वेऽपेक्षिततमानामर्थानां महर्घता परं क्लिश्नाति जनताम् ।
४. ओत् इति प्रगृह्यसंज्ञायां प्रकृतिभावे अहो अस्मीति साधु ।
५. आङ् इहि इत्यवस्थायाम् आद्गुण इति गुणेन एहीति साधु ।
९. उभे अपीति साधु । ईदूदेद् द्विवचनमिति प्रगृह्यसंज्ञा ।
७. सर्व आत्मानमित्येव साधु । रोर्यादेशे तस्य च शाकल्येन लोपे
तस्य चासिद्धत्वादत्परत्वाभावाच्च उत्वं दुर्लभं पूर्वरूपैकादेशश्च
दुर्लभतर इत्यलं समाधानयत्नेन । भारते चैष प्रयोगः । नियोग-
पर्यनुयोगानर्हा वाचि स्वतन्त्रा महर्षयः ।
८. पुण्यपापे इत्येव साधु । ईदूदेद् द्विवचनं प्रगृह्यम् । प्रगृह्यत्वे
प्रकृतिभावः ।
९. नाभिप्रेम इत्येव साधु वृद्धयप्राप्तेः ।
१०. तेऽब्रुवन् इतीष्यते । एडः पदान्तादति इति पूर्वरूपम् ।
११. महार्घतेति स्यात् । अत्र शकन्ध्वादित्वे शिष्टव्यवहारो मृग्यः ।
१ पीडितमिति क्रियाविशेषणं दृढमित्यर्थे । तथा च भारते (सभा० २।२०)
प्रयोगः---पार्थमामन्य गोवि दः परिष्वज्य सुपीडितम् । इत्युक्त्वा माधवं
कर्णः परिष्वज्य च पीडितम् (उ० १४३।५०) इति च । श्रीरामायणे
स्वल्वपि-हृष्ट: सौहृदमालम्ब्य पर्यष्वजत पीडितम् (४।५।१३)। विष्णु-
पुराणे चापि-तं पिता मूर्ध्नुपाघ्राय परिष्वज्य च पीरितम् (१।२०।३०)
२. प्रसितोत्सुकाभ्यां तृतीया चेति तृतीया ।
३. क्रियासमभिहारे लोट् ।
४. समुच्चये सामान्यवचनस्येति सामान्यवचनस्यानुप्रयोगः । संसरतिश्च
सामान्येनोभे जननमरणे आह । संसरणं योनिषु सङ्क्रमणं भवति ।