पृष्ठम्:शब्दापशब्दविवेकः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ सुप्सु विवेच्यानि १तत्र नाम्नामधिकारः प्रथमः १. रोचते मेऽनुवादकला नाम पुस्तकम् । एका प्रतिर्मे प्रहीयताम् २. तारकासुरं जिगीषन्तः कार्तिकेयं सेनानीमैच्छन्सुराः । ३. त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत् । ४. पूर्णचन्द्रनिभाननां सुभ्रू पद्मपलाशाक्षीं मलपङ्कधरां दीनां सीतां दुःखेन व्यभावयन्मारुतिः । ५. तपसैव सृजत्येतां विश्वसृक् सृष्टिमुत्तमाम् । ६. प्राञ्चि काले कन्यकानामपि मौञ्जीबन्धनमभूदिति केचित् । ७. सम्बन्धिनो हि तत्पत्युर्दायं हरन्तीति स्त्रियाऽकामयापि ते समाश्र- यितव्या भवन्ति । १. प्रतिशब्दो ऽव्ययम् । अव्ययादाप्सुप इति सुब्लुका भवितव्यम् । किं च प्रतिशब्दस्य नात्रार्थे शिष्टप्रयोगो दृष्टचर इति यत्न- तस्तं परिहरेत् । तदेकं मे प्रहीयतामित्येव शोभनो न्यास: । २. एरनेकाचोऽसंयोगपूर्वस्येति यणि सेनान्यमित्येव साधु । ३. सुहृद्वचनस्य मित्रशब्दस्य नित्यनपुंसकत्वात्तद्विशेषणेन मायावि- .शब्देनापि नपुंसकेन भवितव्यम् । तेन स्वमोर्नपुंसकात् इत्यमो लुकि नलोपः प्रातिपदिकान्तस्येति नलोपे मायावि इत्येव सुवचम् । ४. सुभ्रूमित्यपशब्दः । अचिश्नुधातुभ्रुवामित्युवङि सुभ्रुवमित्येव शब्दः। ५. वश्च भ्रस्जेति सूत्रेण जकारस्य षत्वे जश्त्वे च विश्वसृडिति साधु। ३, प्राचि इति साधु । अञ्चे:क्विनि अनिदितां हल इति नकारलोपः । उगिदचां सर्वनामस्थाने इति सर्वनामस्थान एव नुम्विधिः । ७. तत्पतेरिति वक्तव्यम् । पतिः समास एवेति घिसंज्ञा ।