पृष्ठम्:शब्दापशब्दविवेकः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० शब्दापशब्दविवेके ८. हा पितः क्वासि हे सुभ्रु बह्वेवं विललाप सः (भट्टि० ६।११) । ९. १बह्वाम्पीमानि तडागानीति नावगाह्यान्यनाविकेन । १०. आसां तिसृणामृचामर्थो न सुज्ञानः । विप्रतिपद्यन्तेत्र व्याख्यातारः । ११. पोषकृतं पूषाणं पोषं रयीणां नित्यमनुनाथामः२ । १२. विरलाः खलु वेदशास्त्रमाणां वेदितारः, विरलतराश्च तदर्था- नामनुष्ठातारः। १३. यवीयेभ्यो भ्रातृभ्यः किमाहृतं त्वया । बह्वी हि तेषु ते प्रीतिः । १४. ईदृशि कर्कशान्यरुष्कराणि३ त्वयोदीर्यन्ते वचनानीति किमात्मना नापत्रपसे ? ८. सुभ्रु इति सम्बुद्धौ भट्टिप्रयोगः । सुभ्रूरिति चेष्यते । अयमत्र समाधिर्जयमङ्गलायाम् - भ्रूशब्दात् अप्राणिजातेश्चारज्ज्वादी- नामित्यूङ् । उवर्णान्तमात्रस्य विधानात् बहुव्रीहिः, उपसर्ज- नत्वं च । पुनः स्त्रियामूङ् । अन्तादिवच्चेति पूर्वं प्रत्यन्तवत्त्वात् प्रातिपदिकत्वम् । अतः सम्बुद्धौ ह्रस्वत्वम् । ९. समासान्तविधिरनित्य इति समासान्तो न कृतः । नित्यमपि च नुममकृत्वा अप्तृन्तृच्-इत्यादिनोपधाया दीर्धे पश्चान्नुमि रूपम् बह्वाम्पि तडागानीति केचिदिच्छन्तीति वृत्तिः । सति समासान्ते बह्वपानीति स्यात् । १०. न तिसृचतसृ इति दीर्घनिषेधे तिसृणामिति साधु । ११. सौ चेति नियमात्पूषणमित्येव साधु । “१२. वेदशास्त्रमर्मणामित्येव न्याय्यम् । नोपधाया इति नामि दीर्घ- विधेः । इह च नाम् नास्ति । नकारान्तान्मर्मशब्दादामो नुड् दुर्लभः । १३. यवीयोभ्य इति तु युक्तम् । झल्येत् इत्यस्याप्राप्तेः । १४. ईदृशीत्येव साधु नान्ताङ्गस्योपधाया दीर्घविधानात् । इह च शकारान्तमङ्गम्। १. बह्व्य आपोऽत्रेति बह्वाम्पि । २. याचामहे । ३. अरु : क्षतं (व्रणम्), तत्कुर्वन्तीति ।