१४ शब्दापशब्दविवेके
९१. दैवदुर्विपाकेन सर्वोपि चिन्तितचरोऽर्थो व्यार्ध्यत् ।
९२. मनस्सु येन द्युसदां न्यधीयत (शिशु०)
९३. हे करुणावति देवमातः, अक्षमोहं ते वेगं विसोढुम् । दत्तहस्ताव-
लम्बा मां निष्णापय ।
९४. येन येन श्रुता वार्ता शबरेण शुकेन वा । गिरिष्ठः पञ्जरस्थो वा
मुग्धस्तत्रैव तत्र सः (बृ० श्लो० सं० ५।८४) ।।
९५. मातरमुपरतां निशम्य सोऽतितरां व्यसदत् ।
९६. काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् । (हितोप०)
९७. पुरः करिष्यामि निजपाणिकपाणिकाम् (शि० भा०)।
९८. टीकयति गमयत्यर्थाण्टीका ।
९९. अधन्योसि यदकुशलं कमं नापद्विक्षे, कुशले च नानुसज्जसे ।
.
.
९१. दैवदुर्विपाकेणेति साधु । कुमति चेति नित्यं णत्वविधानात् ।
९२. द्युसदामित्यत्र पूर्वपदादिति(८।३।१०६) पूर्वपदस्थान्निमित्तादुत्तर-
स्यादेशसकारस्य षत्वं न भवति, सूत्रे छन्दसीत्यनुवृत्ते: ।
९३. निष्णापयेत्यत्र षत्वं दुर्लभम् (तद्धेतुकं णत्वं च), कौशलार्थस्या-
भावात् । नितरां स्नापयेत्येवार्थः ।
९४. गिरिष्ठ इत्यत्र मूर्धन्यादेशस्याप्राप्त गिरिस्थ इत्येव न्याय्यम् ।
अम्बाम्बेति सूत्रे गिरिशब्दस्यादर्शनात् ।
९५. सदिरप्रतेः, प्राक् सितादड्व्यवायेपीति षत्वे सति व्यषदद् इत्येव
साधु ।
९६. चक्षुष्पीडेति युक्तम् । नित्यं समासेऽनुत्तरपदस्थस्यै ति नित्येन
षत्वेन भवितव्यम्।
९७. पुरस्करिष्यामीति वक्तव्यम् । पुरोव्ययमिति गतिसंज्ञायां नम-
स्पुरसोर्गत्योरिति विसर्जनीयस्य सत्त्वविधानात् ।
९८. अर्थाष्टीकेति साधु स्यात् । ष्टुना ष्टुरित्यस्यासिद्धत्वान्नश्छव्यप्र-
शान् इति रुः । विसर्जनीयः । सकारः । तस्य ष्टुत्वेन षकारः ।
९९. नानुसज्जते इति साधु । उपसर्गात्सुनोतिसुवतीत्यादिना (८।३।-
६५) उपसर्गात्सजेः सकरस्य षत्वं विधीयते न तु सज्जेः ।
सात्पदाद्योः (८।४।१११) इति निषेधश्च स्थितः ।
..