च देवसाधर्म्येणान्विताः किमसुरेष्वन्तर्भव[१]न्ति किं वा देवेष्वित्युभयधर्मदर्शनादेककोटिनिश्चायकादर्शनाच्च संदिहानः-
अर्जुन उवाच- |
ये पूर्वाध्याये न निर्णीता न देववच्छास्त्रानुसारिणः किंतु शास्त्रविधिं श्रुतिस्मृतिचोदनामुत्सृज्याऽऽलस्यादिवशादनादृत्य नासुरवदश्रद्दधानाः किं तु वृद्धव्यवहारानुसारेण श्रद्धयाऽन्विता यजन्ते देवपूजादिकं कुर्वन्ति तेषां तु शास्त्रविध्युपेक्षाश्रद्धाभ्यां पूर्वनिश्चितदेवासुरविलक्षणानां निष्ठा का कीदृशी तेषां शास्त्रविध्यनपेक्षा श्रद्धापूर्विका च सा यजनादिक्रियाव्यवस्थितिर्हे कृष्ण भक्ताघकर्षण, किं सत्त्वं सात्त्विकी । तथा सति सात्त्विकत्वात्ते देवाः । आहो इति पक्षान्तरे । किं रजस्तमो राजसी तामसी च । तथा सति राजसतामसत्वादसुरास्ते । सत्त्वमित्येका कोटिः, रजस्तम इत्यपरा कोटिरितिविभागज्ञापनायाऽऽहोशब्दः ॥ १ ॥
'श्री०टी०-उक्ताधिकारहेतूनां श्रद्धा मुख्या तु सात्त्विकी । इति सप्तदशे गौणश्रद्धाभेदस्त्रिघोच्यते ॥+
पूर्वाध्यायान्ते- |
इत्यनेन शास्त्रोक्तविधिमुत्सृज्य कामकारेण वर्तमानस्य ज्ञानेऽधिकारो नास्तीत्युक्तम् । तत्र शास्त्रविधिमुत्सृज्य कामकारं विना श्रद्धया वर्तमानानां किमधिकारोऽस्ति नास्ति वेति बुभुत्सयाऽर्जुन उवाच-य इति । अत्र च शास्त्रविधिमुत्सृज्य यजन्त इत्यनेन शास्त्रार्थं बुद्ध्वा तमुल्लङ्घय वर्तमाना न गृह्यन्ते तेषां श्रद्धया यजनानुपपत्तेः । आस्तिक्यबुद्धिर्हि श्रद्धा । न चासौ शास्त्रज्ञानवतां शास्त्रविरुद्धेऽर्थे संभवति । तानेवाधिकृत्य "त्रिविधा भवति श्रद्धा," "यजन्ते सात्त्विका देवान्" इत्याधुत्तरानुपपत्तेश्च । अतो नात्र शास्त्रातिलङ्घिनो गृह्यन्ते । अपि तु क्लेशबुद्ध्याऽऽलस्याद्वा शास्त्रार्थज्ञाने प्रयत्नमकृत्वा केवलमाचारपरम्परावशेन श्रद्धया क्वचिद्देवताराधनादौ प्रवर्तमाना गृह्यन्ते । अतोऽयमर्थ:-ये शास्त्रविधिमुत्सृज्य दुःखबुद्ध्याऽऽलस्याद्वाऽनादृत्य केवलमाचारप्रा- माण्येन श्रद्धयाऽन्विताः सन्तो यजन्ते तेषां तु का निष्ठा का स्थितिः क आश्रयः । तामेव विशेषेण पृच्छति--किं सत्त्वमाहो किं वा रजोऽथवा तम इति । तेषां तादृशी
- ↑ क. ख. ग. घ. ङ. छ. ज. झ. "वन्तु किं ।