पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१७क्ष्लो०२]
४३७
श्रीमद्भगवद्गीता।



देवपूजादिप्रवृत्तिः किं सत्त्वसंश्रिता रजःसंश्रिता वा तमःसंश्रिता वेत्यर्थः । श्रद्धायाः सात्त्विकत्वात्क्लेशबुध्द्याऽऽलस्येन च शास्त्रानादरस्य च राजसतामसत्वात्रेधा संदेहः। यदि सत्त्वभावसंश्रितास्तर्हि तेषामपि सात्त्विकत्वाद्यथोक्तात्मज्ञानेऽधिकारः स्यात् , अन्यथा नेति प्रश्नतात्पर्यार्थः ॥ १॥

म०टी०-ये शास्त्रविधिमुत्सृज्य श्रद्धया यजन्ते ते श्रद्धाभेदाद्भिद्यन्ते । तत्र ये सात्त्विक्या श्रद्धयाऽन्वितास्ते देवाः शास्त्रोक्तसाधनेऽधिक्रियन्ते तत्फलेन च युज्यन्ते । ये तु राजस्या तामस्या च श्रद्धयाऽन्वितास्तेऽसुरा न शास्त्रीयसाधनेऽधिक्रि- यन्ते न वा तत्फलेन युज्यन्त इति विवेकेनार्जुनस्य संदेहमपनिनीषुः श्रद्धाभेदम्-

भगवानुवाच- त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ॥ सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२॥

यया श्रद्धयाऽन्विताः शास्त्रविधिमुत्सृज्य यजन्ते सा देहिनां स्वभावना, जन्मान्तरकृतो धर्माधर्मादिशुभाशुभसंस्कार इदानींतनजन्मारम्भकः स्वभावः । स त्रिविधः सात्त्विको राजसस्तामसश्चेति । तेन जनिता श्रद्धा त्रिविधा भवति सात्त्विकी राजसी तामसी च, कारणानुरूपत्वात्कार्यस्य । या त्वारब्धे जन्मनि शास्त्रसंस्कारमात्रजा विदुषां सा कारणैकरूपत्वादेकरूपा सात्त्विक्येव, न राजसी तामसी चेति प्रथमचकारार्थः । शास्त्रनिरपेक्षा तु प्राणिमात्रसाधारणी स्वभावजा । सैव स्वभाववैविध्यात्रिविधेत्येवकारार्थः । उक्तविधात्रयसमुच्चयार्थश्चरमश्चकारः । यतः प्राग्भवीयवासनाख्यस्वभावस्याभिभावकं शास्त्रीयं विवेकविज्ञानमनाहतशास्त्राणां देहिनां नास्ति अतस्तेषां स्वभाववशात्रिधा भवन्ती तां श्रद्धां शृणु । श्रुत्वा च देवासुरभाव स्वयमेवावधारयेत्यर्थः ॥ २ ॥

श्री० टी०--अत्रोत्तरं श्रीभगवानुवाच-त्रिविधेति । अयमर्थः-शास्त्रतत्त्वज्ञानतः प्रवर्तमानानां परमेश्वरपूजाविषया सात्त्विक्येकविधैव श्रद्धा । लोकाचारमात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति । तत्र हेतुः-स्वभावजा, स्वभावः पू [१]र्वजन्मसंस्कारस्तस्माज्जाता स्वभावजा । स्वभावमन्यथा कर्तुं समर्थं हि शास्त्रोक्तं विवेकज्ञानं तत्तु तेषां नास्ति । अतः केवलं पूर्व स्वभावे[२]न भवतीति श्रद्धा त्रिविधा भवति तामिमां त्रिविधां श्रद्धां शृणु । तदुक्तम्- " व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन " इत्यादिना ॥ २ ॥


  1. क. वकर्मसं।
  2. क. छ. वेनैव भ।