पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१६क्ष्लो०२२]
व्
श्रीमद्भगवद्गीता ।

श्रेयोर्थिनः कार्याकार्यव्यवस्थितौ किं कार्यं किमकार्यमिति विषये शास्त्रं वेदतदुपजीविस्मृतिपुराणादिकमेव प्रमाणं बोधकं नान्यत्स्वोत्प्रेक्षाबुद्धवाक्यादीत्यभिप्रायः । एवं चेह कर्माधिकारभूमौ शास्त्रविधानेन कुर्यान्न कुर्यादित्येवंप्रवर्तनानिवर्तनारूपेण वैदिकलिङादिपदेनोक्तं कर्म विहितं प्रतिषिद्धं च ज्ञात्वा निषिद्धं वर्जयन्विहितं क्षत्रियस्य युद्धादिकर्म त्वं कर्तुमर्हसि सत्त्वशुद्धिपर्यन्तमित्यर्थः । तदेवमस्मिन्नध्याये सर्वस्या आसुर्याः संपदो मूलभूतान्सर्वाश्रेयःप्रापकान्सर्वश्रेयःप्रतिबन्धकान्महादोषान्कामक्रोधलोभानपहाय श्रेयोर्थिना श्रद्दधानतया शास्त्रप्रवणेन तदुपदिष्टार्थानुष्ठानपरेण भवितव्यमिति संपहूयविभागप्रदर्शनमुखेन निर्धारितम् ॥ २४ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यक्ष्रमिधुसूदन-

सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां दैवासुरसं-

पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६ ॥

 श्री० टी०-फलितमाह-तस्मादिति । इदं कार्यमिदमकार्यमित्यस्यां व्यवस्थायां ते तव शास्त्रं श्रुतिस्मृतिपुराणादिकमेव प्रमाणम् । अतः शास्त्रविधानोक्तं कर्म ज्ञात्वेह कर्माधिकारे वर्तमानो यथाधिकारं कर्म कर्तुमर्हसि तन्मूलत्वात्सत्त्वशुद्धिसम्यग्ज्ञानमुक्तीनामित्यर्थः ॥ २४ ॥ .

देवदैतेयसंपत्तिसंविभागेन षोडशे।
तत्त्वज्ञानेऽधिकारस्तु सात्विकस्येति दर्शितम् ॥ १ ॥

इति श्रीसुबोधिन्यां श्रीधरस्वामिविरचितायां दैवासुरसंपद्वि-

भागयोगो नाम षोडशोऽध्यायः ॥ १६ ॥

अथ सप्तदशोऽध्यायः।

 म०टी०-त्रिविधाः कर्मानुष्ठातारो भवन्ति । केचिच्छास्त्रविधिं ज्ञात्वाऽप्यश्रद्धया तमुत्सृज्य कामकारमात्रेण यत्किचिदनुतिष्ठन्ति ते सर्वपुरुषार्थायोग्यत्वादसुराः । केचित्तु शास्त्रविधिं ज्ञात्वा श्रद्धधानतया तदनुसारेणैव निषिद्धं. वर्जयन्तो विहितमनुतिष्ठन्ति ते सर्वपुरुषार्थयोग्यत्वाद्देवा इति पूर्वाध्यायान्ते सिद्धम् । ये तु शास्त्रीयं विधिमालस्यादिवशादुपेक्ष्य श्रद्धधानतयैव. वृद्धव्यवहारमात्रेण निषिद्धं वर्जयन्तो विहितमनुतिष्ठन्ति ते शास्त्रीयविध्युपेक्षालक्षणेनासुरसाधर्म्येण श्रद्धापूर्वकानुष्ठानलक्षणेन