तस्वरूपेणावस्थितं परमात्मानं पश्यन्हि यस्मादात्मना स्वेनैवाऽऽत्मानं न हिनस्ति अविद्यया सच्चिदानन्दरूपमात्मानं तिरस्कृत्य न विनाशयति । ततश्च परां गतिं मोक्षं प्राप्नोति । यस्त्वेवं न पश्यति स हि देहात्मदर्शी देहेन सहाऽऽत्मानं हिनस्ति । तथाच श्रुतिः-
[१] असूर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । |
म०टी०-ननु शुभाशुभकर्मकर्तारः प्रतिदेहं भिन्ना आत्मानो विषमाश्च तत्तद्विचित्रफलभोक्तृत्वेनेति कथं सर्वभूतस्थमेकमात्मानं समं पश्यन्न हिनस्त्यात्मनाऽऽत्मानमित्युक्तमत आह-
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः॥ |
कर्माणि वाङ्मनःकायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रियसंघाताकारपरिणतया सर्वविकारकारणभूतया त्रिगुणात्मिकया भगवन्माययैव क्रियमाणानि न तु पुरुषेण सर्वविकारशून्येन यो विवेकी पश्यति, एवं क्षेत्रेण क्रियमाणेष्वपि कर्मसु आत्मानं क्षेत्रज्ञमकर्तारं सर्वोपाधिविवर्जितमसङ्गमेकं सर्वत्र समं यः पश्यति, तथाशब्दः पश्यतीतिक्रियाकर्षणार्थः, स पश्यति स परमार्थदीति पूर्ववत् । सविकारस्य क्षेत्रस्य तत्तद्विचित्रकर्मकर्तृत्वेन प्रतिदेहं भेदेऽपि वैषम्येऽपि[२] न (च) निर्विशेषस्याकर्तुराकाशस्येव न भेदे प्रमाणं किंचिदात्मन इत्युपपादितं प्राक् ॥ २९ ॥
श्री०टी०-ननु शुभाशुभकर्मकर्तृत्वेन वैषम्ये दृश्यमाने कयमात्मनः समत्वमित्याशङ्कयाऽऽह-प्रकृत्यैवेति । प्रकृत्यैव देहेन्द्रियाकारेण परिणतया सर्वशः सर्वैः प्रकारैः क्रियमाणानि कर्माणि यः पश्यति । तथाऽऽत्मानं चाकर्तारं देहाभिमानेनैवाऽऽ. त्मनः कर्तृत्वं न स्वत इत्येवं यः पश्यति स एव सम्यक्पश्यति नान्य इत्यर्थः ॥ २९ ॥
म० टी०-~-तदेवमापाततः क्षेत्रभेददर्शनमभ्यनुज्ञाय क्षेत्रज्ञभेददर्शनमपाकृतमिदानीं तु क्षेत्रभेददर्शनमपि मायिकत्वेनापाकरोति-
यदा भूतपथग्भावमेकस्थमनुपश्यति ॥ |
यदा यस्मिन्काले भूतानां स्थावरजङ्गमानां सर्वेषामपि जडवर्गाणां पृथाभावं पृथक्त्वं