महाभारतम्-04-विराटपर्व-036

विकिस्रोतः तः
← विराटपर्व-035 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-036
वेदव्यासः
विराटपर्व-037 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरचोदनया विराटप्रेषितैर्दूतैर्नगरमेत्य जयोद्धोषणम् ।। 1 ।।




वैशंपायन उवाच।

4-36-1x

ततो विराटः कौन्तेयानतिमानुषविक्रमान्।
अर्चयामास वित्तेन मानेन च महारथान्।
वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ।। 1 ।।

4-36-1a
4-36-1b
4-36-1c

विराट उवाच।

4-36-2x

यथैव मम रत्नानि युष्माकं तानि वै तथा।
कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ।। 2 ।।

4-36-2a
4-36-2b

ददाम्यलंकृताः कन्या वसूनि विविधानि च।
मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ।। 3 ।।

4-36-3a
4-36-3b

युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह ।
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ।। 4 ।।

4-36-4a
4-36-4b

वैशंपायन उवाच।

4-36-5x

तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक्।
ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ।। 5 ।।

4-36-5a
4-36-5b

प्रतिनन्दामहे वाचं सर्वथैव विशांपते।
एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ।। 6 ।।

4-36-6a
4-36-6b

यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः ।
न किंचित्कार्यमस्माकं न धनं मृगयामहे ।। 7 ।।

4-36-7a
4-36-7b

अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम्।
निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ।। 8 ।।

4-36-8a
4-36-8b

पुनरेव महाबाहुर्विराटो राजसत्तमः ।
एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ।। 9 ।।

4-36-9a
4-36-9b

मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण।
तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ।। 10 ।।

4-36-10a
4-36-10b

रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा।
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ।। 11 ।।

4-36-11a
4-36-11b

त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च।
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ।। 12 ।।

4-36-12a
4-36-12b

ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः।
प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां ।। 13 ।।

4-36-13a
4-36-13b

आनृशंस्यपरो नित्यं सुमुखः सततं भवान् ।
पुनरेव विराटश्च राजा कङ्कमभाषत ।। 14 ।।

4-36-14a
4-36-14b

अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम ।
सोहं शूद्रेण संग्रामे वललेनाभिरक्षितः ।। 15 ।।

4-36-15a
4-36-15b

त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ।
वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ।। 16 ।।

4-36-16a
4-36-16b

ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम्।
शयनासनयानानि कन्याश्च समलंकुताः ।। 17 ।।

4-36-17a
4-36-17b

हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च।
एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ।। 18 ।।

4-36-18a
4-36-18b

वैशंपायन उवाच।

4-36-19x

तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत।
एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ।। 19 ।।

4-36-19a
4-36-19b

प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परंतप।
दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ।। 20 ।।

4-36-20a
4-36-20b

सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् ।
विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ।। 21 ।।

4-36-21a
4-36-21b

वैशंपायन उवाच।

4-36-22x

एवमुक्ते तु कङ्केन विराटो राजसत्तमः ।
प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ।। 22 ।।

4-36-22a
4-36-22b

कङ्ख उवाच।

4-36-23x

गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव।
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ।। 23 ।।

4-36-23a
4-36-23b

ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत्।
आचक्षध्वं पुरं सत्वा संग्रामे विजयं मम ।। 24 ।।

4-36-24a
4-36-24b

कुमार्यः समलंकृत्य प्रयागच्छन्तु मे पुरात् ।
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः ।
प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ।। 25 ।।

4-36-25a
4-36-25b
4-36-25c

एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् ।
ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ।। 26 ।।

4-36-26a
4-36-26b

नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते।
विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् ।
पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ।। 27 ।।

4-36-27a
4-36-27b
4-36-27c

।। इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्त्रिंशोऽध्यायः ।। 36 ।।

विराटपर्व-035 पुटाग्रे अल्लिखितम्। विराटपर्व-037