महाभारतम्-04-विराटपर्व-035

विकिस्रोतः तः
Jump to navigation Jump to search
← विराटपर्व-034 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-035
वेदव्यासः
विराटपर्व-036 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सुशर्मणा युद्धे विराटस्य ग्रहणम् ।। 1 ।। भीमेन युधिष्ठिरचोदनया विराटस्य मोचनपूर्वकं सुशर्मणो बन्धनम् ।। 2 ।। युधिष्ठिरेण करुणया सुशर्मणो विमोक्षणम् ।। 3 ।।






वैशंपायन उवाच।

4-35-1x

तमसाऽभिप्लुते लोके रजसा चैव भारत।
व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ।। 1 ।।

4-35-1a
4-35-1b

ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः।
कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ।। 2 ।।

4-35-2a
4-35-2b

ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत।
घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ।। 3 ।।

4-35-3a
4-35-3b

तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति।
गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः ।। 4 ।।

4-35-4a
4-35-4b

बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा।
प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ।। 5 ।।

4-35-5a
4-35-5b

मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ ।
सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ।। 6 ।।

4-35-6a
4-35-6b

उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ।
उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ ।। 7 ।।

4-35-7a
4-35-7b

तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी ।
आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ।। 8 ।।

4-35-8a
4-35-8b

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा।
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ।। 9 ।।

4-35-9a
4-35-9b

ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ।
गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ।। 10 ।।

4-35-10a
4-35-10b

सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी।
विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ।। 11 ।।

4-35-11a
4-35-11b

तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः।
स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ।। 12 ।।

4-35-12a
4-35-12b

तस्मिन्गृहीते विरथे विराटे बलवत्तरे।
बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ।। 13 ।।

4-35-13a
4-35-13b

प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे ।
विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ।। 14 ।।

4-35-14a
4-35-14b

तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः।
अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् ।। 15 ।।

4-35-15a
4-35-15b

मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा।
तं मोक्षय महाबाही मा गमद्द्विषतां वशम् ।। 16 ।।

4-35-16a
4-35-16b

भीमसेनः महाबाहो गृहीतं तु सुशर्मणा।
त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ।। 17 ।।

4-35-17a
4-35-17b

उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः।
भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः ।। 18 ।।

4-35-18a
4-35-18b

वैशंपायन उवाच।

4-35-19x

तं तथावादिनं तत्र भीमसेनो महाबलः।
अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ।। 19 ।।

4-35-19a
4-35-19b

अहमेनं परित्रास्ये शासनात्तव पार्थिव।
पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ।। 20 ।।

4-35-20a
4-35-20b

स्वबाहुबलमाश्रित्य परेषामसमं रणे।
एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ।। 21 ।।

4-35-21a
4-35-21b

अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः।
अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ।। 22 ।।

4-35-22a
4-35-22b

वैशंपायन उवाच।

4-35-23x

तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्।
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ।। 23 ।।

4-35-23a
4-35-23b

भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ।। 24 ।।

4-35-24a

मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् ।
जनाः समवबुध्येरन्भीमोऽयमिति भारत ।। 25 ।।

4-35-25a
4-35-25b

मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद।
कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ।। 26 ।।

4-35-26a
4-35-26b

इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव ।
वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं ।। 27 ।।

4-35-27a
4-35-27b

अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम्।
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ।। 28 ।।

4-35-28a
4-35-28b

यदेव मानुषं भीम भवेदन्यैरलक्षितम् ।
तदेवायुधमादाय मोचयाशु महीतिम् ।। 29 ।।

4-35-29a
4-35-29b

यमौ च चक्ररक्षौ ते भवितारौ महाबलौ।
व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः ।। 30 ।।

4-35-30a
4-35-30b

वैशंपायन उवाच।

4-35-31x

भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च।
चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ।। 31 ।।

4-35-31a
4-35-31b

व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः ।
तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ।। 32 ।।

4-35-32a
4-35-32b

विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ।। 33 ।।

4-35-33a

सुशर्मा चिन्तयामास कालान्तकयमोपमम् ।
तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ।। 34 ।।

4-35-34a
4-35-34b

पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् ।
परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ।। 35 ।।

4-35-35a
4-35-35b

निमेषान्तरमात्रेण भीमसेनेन ते रथाः ।
रथानां च गजानां च वाजिनां च ससादिनां ।। 36 ।।

4-35-36a
4-35-36b

सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् ।
पातिता भीमसेनेन विराटस्य समीपतः ।। 37 ।।

4-35-37a
4-35-37b

पत्तयो निहतास्तेषां गदां गृह्य महात्मना ।। 38 ।।

4-35-38a

तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः।
चिन्तयामास मनसा किं शेषं हि बलस्य मे ।। 39 ।।

4-35-39a
4-35-39b

अपरो दृश्यते सैन्ये पुरा मग्नो महाबले।
आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ।। 40 ।।

4-35-40a
4-35-40b

सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ।। 41 ।।

4-35-41a

ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्।
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ।। 42 ।।

4-35-42a
4-35-42b

तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 43 ।।

4-35-43a
4-35-43b

त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः।
तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 44 ।।

4-35-44a
4-35-44b
4-35-44c

सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ।। 45 ।।

4-35-45a
4-35-45b

शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ।
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ।। 46 ।।

4-35-46a
4-35-46b

प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः ।
क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ।। 47 ।।

4-35-47a
4-35-47b

ततो युधिष्ठिरो राजा त्वरमाणो महाबलः।
अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ।। 48 ।।

4-35-48a
4-35-48b

सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् ।
अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ।। 49 ।।

4-35-49a
4-35-49b

ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः।
समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ।। 50 ।।

4-35-50a
4-35-50b

पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः।
अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ।। 51 ।।

4-35-51a
4-35-51b

चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः।
स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ।। 52 ।।

4-35-52a
4-35-52b

ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः।
गदामस्य परामृश्य तमेवाभ्यहनद्बली ।। 53 ।।

4-35-53a
4-35-53b

स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ।। 54 ।।

4-35-54a

भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् ।
उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च।
सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ।। 55 ।।

4-35-55a
4-35-55b
4-35-55c

अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा।
ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ।। 56 ।।

4-35-56a
4-35-56b

समुद्यम्य तु रोषात्तं निष्पिपेष महीतले।
यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ।। 57 ।।

4-35-57a
4-35-57b

तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ।
स मोहमगमद्राजा प्रहारवरपीडितः।। 58 ।।

4-35-58a
4-35-58b

तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे।
अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ।। 59 ।।

4-35-59a
4-35-59b

निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः।
अवजित्य सुशर्माणं धनं चादाय सर्वशः ।। 60 ।।

4-35-60a
4-35-60b

स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः।
विराटस्य महात्मानः परिक्लेशविनाशनाः।
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ।। 61 ।।

4-35-61a
4-35-61b
4-35-61c

नायं पापसमाचारो मत्तो जीवितुमर्हति।
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी ।
गले गृहीत्वा राजानमानीय विवशं वशम् ।। 62 ।।

4-35-62a
4-35-62b
4-35-62c

तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः।
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ।। 63 ।।

4-35-63a
4-35-63b

अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् ।
दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ।। 64 ।।

4-35-64a
4-35-64b

प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् ।
तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ।। 65 ।।

4-35-65a
4-35-65b

एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् ।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ।। 66 ।।

4-35-66a
4-35-66b

दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च ।
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ।। 67 ।।

4-35-67a
4-35-67b

तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः।
मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ।। 68 ।।

4-35-68a
4-35-68b

दासभावं गतो ह्येष विराटस्य महीपतेः।
अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ।। 69 ।।

4-35-69a
4-35-69b

एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः ।
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ।। 70 ।।

4-35-70a
4-35-70b

विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः ।
स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः ।
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ।। 71 ।।

4-35-71a
4-35-71b
4-35-71c

।। श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि पञ्चत्रिंशोऽध्यायः ।। 35 ।।

[सम्पाद्यताम्]

4-35-2 नन्दयन्क्षत्रियानिति थo पाठः ।। 2 ।।

विराटपर्व-034 पुटाग्रे अल्लिखितम्। विराटपर्व-036