महाभारतम्-04-विराटपर्व-037

विकिस्रोतः तः
Jump to navigation Jump to search
← विराटपर्व-036 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-037
वेदव्यासः
विराटपर्व-038 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां ग्रहणम् ।। 1 ।। गोपालेन केनचित्पुरमेत्योत्तरंप्रति कुरुभिर्गोग्रहणस्य निवेदनम् ।। 2 ।।


वैशंपायन उवाच।

4-37-1x

याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ।। 1।।

4-37-1a
4-37-1b

भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ।। 2 ।।

4-37-2a
4-37-2b

विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ।। 3 ।।

4-37-3a
4-37-3b

सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ।। 4 ।।

4-37-4a
4-37-4b

गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ।। 5 ।।

4-37-5a
4-37-5b

गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ।। 6 ।।

4-37-6a
4-37-6b

गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ।। 7 ।।

4-37-7a
4-37-7b

स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ।। 8 ।।

4-37-8a
4-37-8b

दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ।। 9 ।।

4-37-9a
4-37-9b

गवां शतसहस्राणि कुरबः कालयन्ति ते।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ।। 10 ।।

4-37-10a
4-37-10b

राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ।। 11 ।।

4-37-11a
4-37-11b

त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ।। 12 ।।

4-37-12a
4-37-12b

इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ।। 13 ।।

4-37-13a
4-37-13b

तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ।। 14 ।।

4-37-14a
4-37-14b

आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा।
निर्दर्हषामनीकानि भीमेन शरतेजसा ।। 15 ।।

4-37-15a
4-37-15b

धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ।। 16 ।।

4-37-16a
4-37-16b

पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ।। 17 ।।

4-37-17a
4-37-17b

निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते ।
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ।। 18 ।।

4-37-18a
4-37-18b
4-37-18c

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ।। 19 ।।

4-37-19a
4-37-19b

रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ।। 20 ।।

4-37-20a
4-37-20b

त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ।। 21 ।।

4-37-21a
4-37-21b

यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ।। 22 ।।

4-37-22a
4-37-22b

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः ।। 37 ।।

[सम्पाद्यताम्]

4-37-17 पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने वीणायां तन्त्रीसंधानार्थं कीलविशेषौ यस्यां सा ताम्। शरवर्णां शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो यस्याम् ।। 17 ।।

विराटपर्व-036 पुटाग्रे अल्लिखितम्। विराटपर्व-038