रथोत्तमाः श्रेष्ठरथाः । इत्यनेन विलम्बे जातेऽपि शीघ्रागमनं सूचितम् । विलासिनः, 'यो कसलस-' इति घिनुण् । रथैरुत्तमा इति समासः । अपरे अपरे. वीप्सायां द्वि[१]रुक्तिः ॥
ततः स भैम्या ववृते वृत्ते नृपैर्विनिःश्वसद्भिः सदसि स्वयंवरः। |
तत इति ॥ ततः सदसि समाजे स भैम्याः स्वयंवरो ववृते । किंभूते सदसि-भैम्याः स्वसिन्वैराग्येण विनिश्वसद्भिर्विशेषेण मुक्तश्वासैः चिरागतैः पूर्वमायातैर्नृपः वृते । तथा तर्किता ऊहिता तेषु पूर्वागतेषु राजसु विरागिता । अर्थाद्भैम्याः । यस्तैः, स्फुरद्भिः शृङ्गारभङ्गया प्रकाशमानैः। तथा-एते न वृताः स्वयंवरशेपं प्रातानस्मानियं प्रायेण वरिष्यतीति बुद्ध्या आनन्दस्य महार्णवैरगाधसमुद्रैः प्रमुदिततरैर्नवैस्तत्कालागतैर्नृपैः वृते॥
चलत्पदस्तत्पदयन्त्रणेङ्गितस्फुटाशयामासयति स्म राजके । |
चलदिति ॥ चलन्ति पदानि यस्य पुरस्ताद्गच्छन् धुरं वहति धुर्यः शिविकादण्डवाही जनः जनीं भैमीं राजके राजसङ्घमध्ये आसयति स्म आस्थापयत् । किं कृत्वा- यानगतौ अपि शिविकारोहणेनापि गमने सत्यपि इयं भैमी श्रमं गता निःसहा जातेति कपटाद्व्याजादुदीर्य उक्त्वा । किंभूताम्-शिविकापटान्तरितेन तत्पदेन भैमीचरणेन यत् यन्त्रणं यन्त्रणा वा पीडनं धुर्यजनस्य तदेव यद् इङ्गितमवस्थापनसूचिका चेष्टा तेन स्फुट आशयो नवनृपदिक्षामात्रविषयोऽभिप्रायो यस्यास्ताम् । जनी जायतेऽस्यां गर्भ इति, 'जनिघसिभ्यां च' इतीण्प्रत्यये 'जनिवध्योः इति वृद्धिनिषेधे 'कृदिकारात्-' ङीष् ॥
नृपानुपक्रम्य विभूषितासनान्सनातनी सा सुषुवे सरस्वती। |
नृपानिति ॥ सा सनातनी नित्या सरस्वती देवता विभूषितं स्वीयसौन्दर्येणालंकृतमासनं यैस्तान्नृपानुपक्रम्य उद्दिश्य सरस्वतीः वाचः सुषुवे । उवाचेत्यर्थः। किंभूता वाचः-सुधासरःसु अमृतसमुद्रेषु विहारं जलक्रीडामारभ्य कृत्वा अतीवातितरामार्द्रतनूः। तथा-अनु पश्चादविलम्ब्यैवोत्थिताः। तस्मान्निर्गताः । अतिमधुरा इत्यर्थः। सनातनी, अव्ययत्वाट्टयुस्तुट् च ॥
वृणीष्व वर्णेन सुवर्णकेतकीप्रसून[२]वर्णादृतुपर्णमादृतम् । |