पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२३
नरयायचारत

संख्यं कर्म च गुणाञ्च रूपादयस्ताश्च षडपि पदार्थान् हेयत्वेन प्रतिपादयन्ती वा । तथा-गृढभावा अति गहन वाहुयाभिप्राया । गृढस्तिरस्कृतो भावः सत्ता यया कस्यापि वस्तुनः सत्त्वमनङ्गीकुर्वतीति वा । गूढो रक्षितः ब्रह्मणः सत्तालक्षणो भावो ययेति वा । तथा-शुभाङ्गी व्याकरणादिषडङ्गयुक्ता । उपक्रमोपसंहारादिपड्डियतात्पलिङ्गयुक्ता वा । यमनियमाद्यङ्गोपेता वा । 'यतो वाचो निवर्तन्ते' इत्यादिश्रुतिप्रामाग्याद्वागगोचरस्वरूपम् । तथा-चितो ज्ञानस्य समुद्रम् । चिच्चासावम्भोधिश्चेति वा। निःसीमश्चासायानन्दश्च एवंभूतं परमानन्दरूपमात्मलक्षणनवमद्रव्यपदार्थरूपम्। 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतिप्रामाण्यादद्वितीयं एकं ब्रह्मरूपं परमपुरुषमुद्दिश्य अत्यर्थं तत्रैव परब्रह्मस्वरूपपरमपुरुषे तात्पर्यम यस्या एवंभूता भवति । 'अनन्तं सुरवर्त्म खम्' इत्यमरः । आप एव आप्यमिति चातुर्वर्णादित्वात्म्यञ् । शुभाङ्गी, 'अङ्गगात्र-' इति ङीष् । उपनिषत्पक्षे शुभाङ्गीव गुभाङ्गी ॥

श्रीहर्षे कविराजराजिमुकुटालंकारहीरः सुतं
 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
शृङ्गारामृतशातगावयमगादकादशस्तन्महा-
 काव्ये चारुणि नैषधीयचरिते सगों निसर्गोज्वलः॥११॥

श्रीहर्षमिति ॥ शृङ्गारलक्षणस्यामृतस्य शीतगौ चन्द्ररूपे । शीतगौ भाषितपुंस्कम् ॥ इति श्रीवेदरकरोपनामश्रीमन्नृसिंहपण्डितात्मजनारायणकृते नैषधीय- प्रकाशे एकादशः सर्गः॥

द्वादशः सर्गः।

 इदानीं नूतनसमागतराजवर्णनार्थं द्वादशं सर्गमारभते-

प्रियाह्रियालम्ब्य विलम्बमाविला विलासिनः कुण्डिनमण्डनायितम्।
समाजमाजग्मुरथो रथोत्तमास्तमासमुद्रादपरेपरे नृपाः ॥१

 प्रियेति ॥ अथो अनन्तरं अपरे अपरे अन्ये अन्ये नृपाः आसमुद्रात्समुद्रमवधीकृत्य । दिगन्तेभ्यः सकाशादित्यर्थः । कुण्डिनस्य मण्डनायितं भूषणवदाचरितं अलंकारकं समाजं स्वयंवरसभामाजग्मुः । किंभूताः-प्रियाभ्यः स्वनायिकाभ्यः सकाशाद्या ह्वीः (तया) तासामनुरागजनितमुखदाक्षिण्येन कृत्वा विलम्ब स्थैर्यमालम्ब्य आविला व्याकुलान्तःकरणाः। प्रियामुखदाक्षिण्यानुरोधेनास्माकं विलम्बे जाते भैमीस्वयंवरो जातो मा भूदिति बुद्ध्या नातिसोत्साहाः। तथा विलासिनः शृङ्गारभङ्गीसहिताः। तथा-