वाणीत्यर्थः । अत्र प्राधान्येन वाणीवर्णनम्, अन्यत्प्रासङ्गिकम् । पद्मगन्धादिभिर्मुखे भारतीवासोऽनुमीयते। ईश्वराणां गृहं गैरिकादिविचित्रं भवति। गैरिकयुक्ता सुधेति वा॥
वाणीति ॥ हे भैमि, ते वाणी कापि वर्णयितुमशक्यत्वाल्लोकोत्तरा, अथ च-अनिदिष्टनामा, उज्ज्वलरसस्रोतस्वती शृङ्गाररससम्बन्धिनी नदी, अथ च-निर्मलजला निमलजलसम्बन्धिनी वा नदी । अत एव-मन्मथस्य तीर्थं कामोद्दीपिका । तथा-इदमीयस्य अस्या नद्याः सम्बन्धिनः पुलिनस्य सम्बन्धिनी वालुकैव इक्षुविकाररूपः खण्डं खण्डमित्यालप्यते गीयते । तथा-पूता निर्मलाः सिताः शुभ्राश्चक्रिकाः शर्कराकृतचक्राणि एतस्यास्तीरस्य मृदैव धवलमृत्तिकयैव विरचिताः किम् । तथा-पीयूषममृतमस्याः सम्बन्धीनि पयांसि इदम्पयांसि किम् । अस्या जलान्येवामृतत्वेनालप्यन्ते किमित्यर्थः । तथा-तवाधरावेव इदन्तीरे अस्या नद्यास्तीरे उभौ तटौ किम् । शृङ्गाररसप्रधाना कामोद्दीपिका भवद्वाणी मधुरतमेति भावः ॥
परभृतयुवतीनां सम्यगायाति गातुं |
परेति ॥ हे तरुणि प्रादुर्भूतयौवने, सुधासिन्धुवेणी सुधानदीप्रवाहरूपा तवेयं वाणी परभृतयुवतीनां सम्यग्याथात्म्येन गातुं भाषितुं नायाति, यस्माद्धेतोस्ताभिः कोकिलाभिरसौ त्वद्वाणी भवत्या उपविपिने स्थितो य आम्रवृक्षस्तस्मिन्स्थित्वा रसालाङ्कुरस्वादेन रसिकेऽतिमधुरे, अथच-ममाप्येवंवाणी भवत्वेवंसाभिलाषे, कण्ठे कर्तुं कण्ठस्थां कर्तुमाम्रेडितेन पुनःपुनर्घोषणेन कति वारान्नाभ्यस्यते, अपितु बहुवारमभ्यस्यत एव । तस्मादद्यापि तासां भवद्वाणी सम्यङ्गायातीति ज्ञायत इत्यर्थः। कोकिलालापादपि त्वद्वाणी मधुरतमेति भावः । भिक्षाटनेन विद्याभ्यासः सुकर इति सूचनार्थं परभृतपदम्। पुमपेक्षया स्त्रीणां विशेषतस्तरुणीनामिति सूचनार्थं युवतिपदम् ॥