पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८१
एकविंशः सर्गः।

उन्मीलद्गुडपाकतन्तुलतया रज्वा भ्रमीरर्जय-
 न्दानान्तःश्रुतशर्कराचलमथ स्वेनामृतान्धाः स्मरः।
नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भव-
 ज्जिह्वायाः कृतिमाह्वयेत परमां मात्कर्णयोः पारणाम् ॥ १५४ ॥

 उन्मीलदिति ॥ अमृतमेवान्धोऽन्नं यस्य देवत्वात्, तादृशो भवन्स्मरो यदि इक्षुरस एवोदधिस्तस्मात्सकाशान्नव्यां नूतनां देवासुरोत्थापितपूर्वसुधाया अन्यादृशीं सुधामात्मनैवोत्थापयेन्निर्गमयेत्, तर्हि सा मधुरतमा सुधा मत्कर्णयोः परमां पारणामद्वितीयतृप्तिहेतुं भवत्या जिह्वायाः कृतिं त्वद्रसनानिर्मितां वाणीमाह्वयेत स्पर्धापूर्वमाकारयेत् । किम्भूतः स्मरः-उन्मीलन्नतिप्रकाशमानोऽतिशयितो गुडस्येक्षुरसविकारस्य पाकस्तज्जन्या ये तन्तव इव तन्तव ऊर्ध्वोर्ध्वप्रसारितगुडनिर्गतदोरकास्त एव दैर्घ्याल्लता तयैव रज्वा मन्थभ्रमणदोरकेण कृत्वा दानान्तस्तुलापुरुषदानादिमध्ये आयुरारोग्यादिफलकः श्रुतः शर्कराचलः स एव मन्था मन्दरस्तस्य भ्रमीर्भ्रमणानि अर्जयन् कुर्वन् । तया रज्ज्वा शर्कराचलरूपं मन्थानं चालयन् । अतिमधुरसामग्रीसम्पादितं हि मधुरतमं भवतीत्येवंविधमधुरसामग्रीकत्वान्मधुरतमापि सुधा भवद्वाणीतुल्या भवेन्नवा, अन्या तु नैवेत्यर्थः । 'अथातः सम्प्रवक्ष्यामि शर्कराचलमुत्तमम् । यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा ॥' इति दानखण्डे । आह्वयेत, 'स्पर्धायामाङः' इति तङ् ॥

[१]आस्ये या तव भारती वसति तल्लीलारविन्दोल्लस-
 द्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते ।
ताकलिभ्रमणार्हगैरिकसुधानिर्माणाह[२]र्म्याधरे
 तन्मुक्तामणिहार एव किमयं दन्तस्रजौ राजतः ॥ १५५ ॥

 आस्येति ॥ अयि प्रिये, तवास्ये या भारती सरस्वती वसति । किम्भूते आस्ये-तस्या भारत्या एव हस्तस्थितस्य लीलारविन्दस्यैवोल्लसन् प्रसरन् वासो गन्धो यस्मिन् । पद्मिनीत्वात्पद्मतुल्यपरिमले । तथा-तस्या एव कलो वैणो निक्वणः मधुरास्फुटो वीणासम्बन्धी नादस्तद्रूपं मिलत्सम्बध्यमानं वाणीविलासरूपं वक्रोत्क्यादिनानाविधवाग्विलासरूपममृतं यस्मिन् । तथा-तस्या एव केलिभ्रमणार्हं लीलागमनयोग्यं गैरिकेण रक्तधातुविशेपेण रञ्जितया सुधया धवलनसाधनचूर्णद्रव्येण च चित्रादिनिर्माणं यत्र तादृशं यद्धर्म्यं गृहं तद्रूपस्तत्तुल्योऽधरोष्ठो यस्मिन् । तादृशे । आस्ये पुरो दृश्यमाने ये दन्तस्रजौ द्वे दन्तमाले राजतः शोभेते, तद्रूपोऽयं पुरोदृश्यमानः तस्या भारत्या मुक्तामणिरचितो हार एव किम्, तद्वत्ते रेजाते इत्यर्थः । सरस्वतीवीणाक्वणिततुल्या तव



  1. इतःप्रभृति सप्त श्लोका जीवातौ नोपलब्धाः ।
  2. 'रम्या-' इति मूल पुस्तकपाठः ।