ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं |
ऊर्ध्व इति ॥ हे प्रिये, ते ऊर्ध्वो रदनच्छद ओष्ठ एव बन्धूकमालामयं स्मरधनुः। तवाधराधरतटस्याधस्तनौष्ठभागस्याधःसीमायां पर्यन्तमर्यादायां वर्तमाना लेखा सैव दैर्घ्याल्लता तत्र कामचापे मौर्वी । एषा तावकी वागपि मान्मथः कामसम्बन्धी कामाद्वैतप्रतिपादको धनुर्वेद एव । सोयं विशिष्टस्त्वद्वाणीरूपो मान्मथो धनुर्वेद उचितं योग्यं यथा तथा कोणधनुष्मतीभिर्वीणावादनधनुर्युक्ताभिर्वीणाभिरभ्यस्यते परमद्यापि नायातीत्यर्थः । त्वद्वाणी वीणाक्वणितादपि मधुरतमेति भावः। धनुर्वेदश्च धनुर्धरैरेवाभ्यस्यते इत्यौचित्यम् । अभ्यस्यते, एतदुचितमिति वा । यत्स्वस्य नायाति तदागमनार्थमभ्यासो ह्युचित एवेत्यर्थः ॥
स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपाङ्क्तेयता |
स इति ॥ हे मुग्धे सुन्दरि, यः पुरुषः मधु किन्नामेति पृच्छति प्रश्नं कुर्वाणे जने विषये तवाधरमेवोत्तरं न दत्ते, स ग्राम्यः पामरोऽचतुरः, नतु नगरनिवासयोग्य इत्यर्थः । तथा-हेम किम्प्रकारकमिति प्रश्नं कुर्वाणे यस्त्वद्वपुरेवोत्तरं न दत्ते, स विदग्धानां चतुराणां संसदि सभायां सदाऽपाङ्क्तेयतां पङ्क्तिबहिर्भूतत्वं पातित्यं गच्छति । तेषां पङ्क्तौ नोपवेश्यते सोऽप्यचतुर इत्यर्थः । तथा-सुधा नाम कीदृक् इति च प्रश्नं कुर्वाणे ते गिरं चोत्तरं न दत्ते, स्मरस्य विशिखास्तं च पुरुषं स्प्रष्टुमपि विगानोन्मुखा जुगुप्सायै कृतोद्यमाः, 'नीरसोयम्' इति जुगुप्सया तं न स्पृशन्ति न भिन्दन्तीति किं वाच्यम्, सोऽप्यचतुर इत्यर्थः । त्वद्वाणी सुधाया अपि मधुरतमेति भावः । अधरादिवर्णनं तु प्रासङ्गिकम् । ग्राम्यः, 'ग्रामाद्यखञौ' इति भावार्थे यः । पाङ्क्तेयः, नद्यादित्वाड्ढक् ॥
मध्ये बद्धाणिमा यत्सगरिममहिमश्रोणिवक्षोजयुग्मा |
१ कलिकातामुद्रितपुस्तके तु 'आरभ्यते' इति पाठो मूलेपि प्रतीयति ॥