रम्भा-दिट्ठिआ पिअसही पुत्तअस्स जुवराअसिरीं पेक्खिअ भन्तुणो अविरहेण वड्ढदि । [ दिष्ट्या प्रियसखी पुत्रकस्य युवराजश्रियं प्रेक्ष्य भर्तुरविरहेण वर्धते ।]
उर्वशी-णं साधारणो ज्जेव एसो अब्भुदओ।[ननु साधारण एव एष अभ्युदयः।] (कुमारं हस्ते गृहीत्वा) जाद ! जेट्ठमातरं वंदेहि । [जात ! ज्येष्ठमातरं वन्दस्व ।]
राजा-तिष्ठ । सममेव तत्रभवत्याः समीपं यास्यामस्तावत् ।
नारद:-
आयुषो यौवराज्यश्रीः स्मारयत्यात्मजस्य ते ।
अभियुक्तं महासेनं सैनापत्ये मरुत्वता ॥ २३ ॥
राजा-अनुगृहीतोऽस्मि मघवता।
नारदः-भो राजन् ! किं ते भूयः प्रियं करोतु पाकशासनः ।
रम्भा-दिष्ट्या महत्सौभाग्यमिदमद्य यत् प्रियसखी उर्वशी पुत्रकस्य आयुषः युवराजश्रियम् प्रेक्ष्य भर्तुः अविरहेण संश्लेषेण वर्धते । अत्र भर्त्रा सह अवियोगः, पुत्रस्य यौवराज्यञ्च मधुनि सितासंयोग इव संवृत्तः ।
उर्वशी-ननु इति अवधारणे । आवयोः साधारण एव एष अभ्युदयः । (कुमारं हस्ते गृहीत्वा ) जात वत्स ! ज्येष्ठमातरमौशीनरीं वन्दस्व ! अत्र आचारानुसारं वर्तनात् नायिकायाः योग्यता सूच्यते ।
राजा-तिष्ठ!
तत्रभवत्याः मान्यायाः काशिराजदुहितुः समीपं सममेव यास्यामः । सर्वे मिलित्वा समवायेनैव तत्रभवतीं द्रक्ष्याम इति ।
आयुष इति-ते आत्मजस्य पुत्रस्य आयुषः यौवराज्यश्रीः युवराजलक्ष्मीः मरुत्वता इन्द्रेण सैनापत्ये सेनाधिपकार्ये अभिषिक्तं विनियुक्तं महासेनं स्कन्दं स्मारयति स्मृतिपथमवतारयति । तव पुत्रस्य यौवराज्यपदेऽधिष्ठानं कार्तिकेयस्य सेनानीत्वेन प्रविष्ठापनं स्मारयति गुहसदृशपराक्रमोऽयं भवितेत्यर्थः।
"कार्तिकेयो महासेनः" इत्यमरः । अत्र आयुषः यौवराज्ये प्रतिष्ठा गुहस्य सेनानीत्वं स्मारयतीति स्मरणालङ्कारः । “सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः" इति लक्षणात् । अत्र भाषणं नाम निर्वहणसन्ध्यङ्गमुक्तं भवति । अनुष्टुप् वृत्तम् ॥ २३॥
राजा-अनुगृहीतोऽस्मि मघवता इन्द्रेण ।
नारदः-भो राजन् ! किं ते भूयः पुनरपि प्रियं करोतु अभीप्सितं सम्पा-