पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५७
पश्चमोऽङ्कः

 द्वितीय:-

तव पितरि पुरस्तादुन्नतानां स्थितेऽस्मिन्
 स्थितिमति च विभक्ता त्वय्यनाकम्प्यधैर्ये ।
अधिकतरमिदानीं राजते राजलक्ष्मीः
 हिमवति जलधौ च व्यस्ततोयेव गङ्गा ॥ २२ ॥


बुधः तस्य पुत्रः राजा पुरुरवा अभवत् । देवो राजा "राजा भट्टारको देवः" इत्यमरः । अतिशयः उत्कर्षः । ईदृक् भावः रघुवंशे "आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥

 अत्र पारम्पर्यद्योतनाय बहूनामुपमानानां प्रदानात् मालोपमा । अत्राशीर्वचनम् नाम नाव्यालङ्कारः । यदुक्तम् "आशीरिष्टजनाशंसा।" मालिनी वृत्तम् ॥ २१॥

 द्वितीयो वैतालिकः-

 तवेति-उन्नतानां उच्चैः शिरसां महतां पुरुषाणां पुरस्ताद् अग्रे स्थितेऽस्मिन् तव पितरि स्थितिमति मर्यादापालके अनाकम्प्यधैर्ये अचलचेतः स्थैर्ये त्वयि विभक्ता राजलक्ष्मीः उन्नतानां पर्वतानां अग्रिमत्वेन स्थिते हिमवति च सति स्थितिमति मर्यादावति च अनाकम्प्यधैर्ये अक्षोभ्ये धीरे वा जलधौ समुद्रे व्यस्ततोया विभक्तजलप्रवाहा गङ्गा इव इदानीं अधिकतरं राजते शोभते । यथा गङ्गा हिमाचलतः निःसृता च समुद्रं गच्छन्ती सविशेषं शोभते तथैव राज्यश्रीः महतामग्रगण्ये तव पितरि मर्यादाशालिनि त्वयि च स्थिता सतीदानीं शोभतेतराम् इति भावः।

 उन्नतानां पुरस्तादिति पदचयः राज्ञः पक्षे महतामग्रेसरः, हिमवतः पक्षे सानुमता अग्रिमः इति तात्पर्यं बोधयति । तथैव च स्थितिमति इति पदम् कुमारपक्षे उच्चावचानां उचितानुचितानां मर्यादापालकत्वं, समुद्रपक्षे न्यूनत्वाधिक्ययोः दूरसमीपयोर्मर्यादावत्त्वम् गमयति । अनाकम्प्यधैर्ये इति पदेन युवराजपक्षे अनुच्छेद्यचित्तस्थिरत्वम् , पयोधिपक्षे अक्षुब्धत्वम् शान्तलं वा ज्ञाप्यते ।

 अत्र एतेषु पदेषु श्लेषः । तथा चात्र यथासख्यं अलङ्कारः । राज्ञः हिमवता सह औपम्यस्य गम्यत्वात् राज्ञः उच्चैः शिरस्त्वप्रतिपादनात् "क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीवेति" गुणो, हिमवद्वत् अचलत्वम् धीरत्वं च ध्वन्यते । तथा च युवराजस्य जलधिना औपम्यदर्शनात् गभीरत्वम् , धीरत्वम् च व्यज्यते । तथा चात्र उपमालङ्कारः । राजलक्ष्म्याः गङ्गया सह साधर्म्यकल्पनात्, निर्मलत्वम् पावकत्वम् , हृदयशीतलत्वम् , देवतात्वम् , भूषणत्वम् , प्रसादकत्वम् द्योतितम् । “राजते राज" इत्यत्र यमकमलङ्कारः । मालिनी वृत्तम् ॥ २२ ॥