राजा-अतःपरमपि प्रियमस्ति! यदि भगवान् पाकशासनः प्रसादं करोतु । ततः
(भरतवाक्यम्)
परस्परविरोधिन्योरेकसंश्रयदुर्लभम् । |
अपि च-
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । |
दयतु पाकशासनो देवेन्द्रः । नाटकावसाने शिष्टाचारोऽयम् । अत्र काव्यसंहारो नाम सन्ध्यङ्गम् “वरप्रदानसम्प्राप्तिः काव्यसंहार इष्यते" इति लक्षणात् ॥
राजा-अतःपरमपि प्रियमस्ति । मयि जीवति पुत्रकस्य राज्यकार्यनिर्वहणसामर्थ्यं, यौवराज्यप्रतिष्ठापनम् , वल्लभया यावज्जीवपर्यन्तम् सहवासः सर्वं सम्यगुपपन्नम् । अतः परम् न किञ्चिदस्ति । तथापि यदि भगवान् पाकशासनः पाकनाम्नः दैत्यस्य हन्ता, महेन्द्रः प्रसादं करोतु प्रसन्नः स्यात्तदा इदं भवतु ।
(भरतवाक्यम् ) नटवाक्यम् । नाटके अभिनयसमाप्तौ नटेन सामाजिकेभ्यः आशीर्दीयते । नाटके पूर्वं नटादीनां नटत्वेन प्रवेशः प्रस्तावनापर्यन्तं भवति । वस्तुनि समारब्धे नटस्योक्तेः अन्याय्यत्वात् नाट्यशास्त्रप्रवर्तकमुनिविशेषभूमिकाऽवलम्बिनो नटस्य शुभशंसनात्मकं वाक्यम् भरतवाक्यमिति सर्वेषां मङ्गलं रूपं प्रशस्तिनामकं निर्वहणसन्धेः चरममिदमङ्गं वेदितव्यम् "नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते" इति दर्पणकाराः ।
परस्परेति -प्रायशः मूर्खा धनिनो भवन्ति पण्डिताश्च दारिद्र्यव्याकुलाः सन्तीति मत्वा द्रव्यपाण्डित्ययोः सामानाधिकरण्याय प्रार्थयते ।
परस्परं विरोधिन्योः निसर्गवैरयोः श्रीसरस्वत्योः लक्ष्मीसरस्वत्योः एकसंश्रयदुर्लभम् एकाश्रयगतत्वेन दुर्लभं सङ्गतम् सहवासः सतां सज्जनानां भूतये अभ्युदयाय अस्तु । यत्र श्रीः दृश्यते तत्र सरस्वत्यभावः, यत्र सरस्वती तत्र श्रीर्न लक्ष्यते । इत्येवं उभयोरेकाश्रयेण स्थितिर्दुर्लभा । अतः सा सत्पुरुषाणां वृद्ध्यै भवतु ॥ अत्र सज्जनानां अभ्युदयस्य प्रार्थितत्वात् तेषाश्च प्रशंसाया गम्यमानत्वात् "प्रशस्ति"र्नाम सन्ध्यङ्गमुक्तं भवति । तदुक्तं आदिभरते "देवद्विजनृपादीनां प्रशस्तिः स्यात्प्रशंसनम्" इति । मूर्खा धनिनः पण्डिता दरिद्राः प्रायशो भवन्तीति मतमवलम्ब्य अनुरूपभावं जगन्नाथः प्रकटीचकार "खञ्जायितोऽधिमति गञ्जापरोऽपि बत सञ्जायतेऽत्र धनदः । सञ्जाघटीति गुणपुञ्जायितस्य न तु गुञ्जामितञ्च कनकम्" इति । अनुष्टुप् वृत्तम् ॥ २४॥ यपि च द्वितीयाशी:-
सर्व इति-सर्वः पुरुषः इह जगति दुर्गाणि दुःखानि क्लेशान् वा तरतु