पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६०
विक्रमोर्वशीये

(इति निष्कान्ताः सर्वे)

इति पश्चमोऽङ्कः।

समाप्तमिदम् श्रीकालिदासकृतम् विक्रमोर्वशीयं नाम त्रोटकम् ।



पारं करोतु । दुःखादात्मानं उद्धरतु इत्यर्थः । सर्वः लोकः इह संसारे भद्राणि कल्याणानि सुखानि वा पश्यतु । सुखमनुभवत्वियर्थः । सर्वः अत्र कामान् स्वस्वमनोरथान् आप्नोतु । सर्वेषां मनोरथसिद्धिः भवतु । सर्वः सर्वत्र इह परत्र, गृहे बहिः राजसभायां वा सर्वतः सर्वकालं नन्दतु आनन्दं प्राप्नोतु । सर्वे जनाः इह भुवि सुखिनः सन्तु इत्याशीर्वचनम् । अनुष्टुब् वृत्तम् ॥ २५ ॥

(इति सर्वे नटाः निष्क्रान्ताः रङ्गभूम्या अपगताः)

इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनस्वानस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजःप्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजस्रप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदद्वन्द्वारविन्दानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानां आचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्यवर्याणां तनूभवैः सहृदयताजलनिधिकौस्तुभैः इन्दूरमहाराजासंस्कृतमहाविद्यालयाध्यक्षैः एम्. ए. काव्यतीर्थसाहित्यविशारदाद्यनेकोपाधिसमुल्लसितैः सुरेन्द्रनाथशास्त्रिभिः विरचितायां विक्रमोर्वशीयसंजीविकायाम् निसर्गोज्ज्वलायाम् विद्वन्मनःसागरशशिलेखायां कल्पलतासमाख्यायां व्याख्यायाम् पञ्चमाङ्कमुकुरः ॥

॥ समाप्तमिदं व्याख्यानम् ॥

॥ समाप्तश्चायं कालिदासप्रणीतो ग्रन्थः ॥

यावद्भा सवितुर्भाति यावच्च शशिनः कला ।
तावत्कल्पलतासक्तो ग्रन्योऽयं भुवि वर्धताम् ॥

॥ भद्रमस्तु । इति शम् ॥