पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ].

  • अभिनवराजलक्ष्मीविराजितम् *

प्यतामसौ दुष्टात्मा कुपरीक्षितकारी नापितः।' तथानुप्टिते तैरभिहितम्- 'कुष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम् ॥१७॥ अथवा साध्विमुच्यते- अपरीक्ष्य न कर्तव्यं, कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मण्या नकुलाद्यथा ।। १८ ॥ मणिभद्र आह-'कथमेतत् ? । ते धर्माधिकारिणः प्रोचुः- १. ब्राह्मणीनकुळकथा कस्मिश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मण. प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्नेव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुतवत्सला दारकवत्तमपि नकुलं स्तन्य- दानाभ्यङ्गमर्दनादिभिः पुपोप । परं तस्य न विश्वलिति । अपत्य- स्नेहस्य सर्वस्नेहातिरिक्ततया सततमेवमाशङ्कते-यत्-'कदाचि- देप स्वजातिदोषवशादस्य नारकस्य विरुद्धमाचरिष्यति' इति । कुपुत्रोऽपि भवेत्पुंसां हृदयानन्दकारकः । दुर्विनीतः कुरूपोऽपि मूर्योऽपि व्यसनी खल ॥१९॥ तैः वर्माधिकरणस्थै । शूलं वधसाधनं । ('शूली' ) कुपरीक्षितकारी असमीक्ष्यकारी । तथाऽनुष्टिते शूलमारोप्य हते सति । तै =धर्माधिकारिभिः। ( मजिस्ट्रेट, जज, न्यायाधीश)। अधिष्ठान नगरम् । 'नामेति प्रसिद्धी। प्रसूय-उत्पाद्य । साब्राह्मणी । दारकवत्-स्वपुत्रवत् । तम् अनायं । स्तन्यं दुग्धम् । अभ्यङ्ग-तैलादिलाप- नम्। मर्दनं संवाहनं । ( दावना, मलना,)। तस्य नकुलस्य । दारकस्य= मत्पुत्रस्य । विरुद्धम् अनिष्टम् । हृदयस्यानन्दं करोतीति-हृदयानन्दकारक. मनोहरः। दुर्विनीत =अशि- १'तस्य भार्या पुत्रमेकं नकुलं च सुपुवे । अथ सा लुतवत्सला जुतवन्नकुलमपि। पाठोय शोभनः।