पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित- 1 प्रहारैः शिरस्यताडयत् । तेऽपि ताज्यमाना एके मृताः, अन्ये भिन्नमस्तकाः फूत्कर्तुमुपचक्रमिरे । अत्रान्तरे तमाक्रन्दमाकये कोटरक्षपालेनाऽभिहितम्-'भो भोः ?, किमयं महान्कोलाहलो नगरमध्ये ! तद्गम्यतां,गम्यताम्।' ते च सर्वे तदादेशकारिणस्तत्सहिता वेगात्तद्गृहं गता यावत्पश्यन्ति, तावद्रुधिरप्लावितदेहाः पलायमाना नग्नका दृष्टा, पृष्टाश्व-'भोः, किमेतत् ? ।' ते प्रोचुर्यथावस्थितं नापितवृत्तम् । तैरपि स नापितो बद्धो हतशेषैः सह धर्माधिष्ठानं नीतः । कारणिकै पितः पृष्टः-भोः ! किमेतद्भवता कुकृत्यमनुष्टि. तम् ? । स आह-'किं करोमि, मया श्रेष्ठिमणिभद्रगृहे दृष्ट एवं विधो व्यतिकरः।' सोऽपि सर्व मणिसद्वृत्तान्तं यथादृष्टमा कथयत्। ततः श्रेष्टिनमाहूयते भणितवन्तः– 'भोः श्रेष्ठिन् ! किं त्वया कश्चित्क्षपणको व्यापादितः । ततस्तेनापि सर्वः क्षपणक- वृत्तान्तस्तेषां निवेदितः। अथ तैरभिहितम्-'अहो ! शूलमारो- अपरं किञ्च । ('और')। तान् भिक्षून् । निभृतं -शनकैः । ( धीरे से )। एके केचन भिक्षवः । अन्ये अपरे । भिन्नमस्तका. स्फुटितशिरसः। फूत्कर्तु तारस्वरेण रोदितुं । ('चिल्लाने' )। आक्रन्दः कोलाहल । कोटरक्षपालेन-नगर- रक्षाधिकारिणा । ( कोतवाल ने') । तदादेशकारिण. नगररक्षाधिपाज्ञा- कारिणः । (सिपाही लोग ) । पलायमानाः धावमाना. । नग्नका. भिक्षवः । यथा- वस्थितम्-आदितः सज्जातं । तै राजपुरुपै । हतशेपै.अवशिष्टैर्भिक्षुभिः सह । धर्माधिष्टानं राजद्वारं । ('कचहरी')। कारणिकै. धर्माधिष्ठानस्थै न्यायाधीशैः। तैरिति पाठेऽपि स एवार्थ. । व्यतिकर =विपरीताचरणं । ( 'गडवड़' )। स.- नापितः । व्यापादितः हतः । क्षपणकवृत्तान्तः-स्वप्ने पद्मनिधिदर्शनं, तदादेश- प्राप्तिस्तत्प्रादुर्भावश्चेत्यादिवृत्तान्त.। १'नो चेद्भवति सन्तापः' इति गौडाः पठन्ति ।