पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२

  • पञ्चतन्त्रम् *

[ २ मित्र- अथ मित्रसम्प्राप्तिः अथेदमारभ्यते मित्रसंप्राप्ति म द्वितीयं तन्त्रं, यस्यायमा- दिमः श्लोकः- असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्रुताः । साधयन्त्याशु कार्याणि काकाऽऽखुमृगंकूर्मवत् ॥ १॥ तद्यथाऽनुश्रूयते-'अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान्, नानाविहङ्गो- पभुक्तफलः, कीटैरावृतकोटरश्छायाश्वासितपथिकजनसमूहो -न्यग्रोधपादपो महान् । अथवा युक्तम्- छायासुप्तमृगः शकुन्तनिवहैविप्वग्विलुप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः सर्वाङ्गबहुसत्त्वसङ्गसुखदो भूभारभूतोऽपरः ॥२॥

  • श्रीगुरुप्रसादशास्त्रिविरचिता अभिनवराजलक्ष्मीः *

वाचस्पत्यवतारश्रीस्नेहिरामजिशास्त्रिणाम् । मरुमण्डलमार्तण्डपादपकजयोर्भजे ॥१॥ असाधना: साधनोपायहीना. । बहुश्रुता =व्यवहारकुशला. । श्रुतमम्पन्ना ॥१॥ महोच्छ्रायवान् अतिविशाल. । 'नगाद्यारोह उच्छ्राय' इत्यमरः । नाना- विहङ्गोपभुक्तफल =अनेकपवृक्षिन्दास्वादितफल । छायया आश्वासिता. सन्तो- षिताः-पथिकजनसमूहा येनासो तथा । छायायामाश्वासिता. परिश्रान्ता इति वा । न्यग्रोधपादप वटवृक्षः । छायेति । छायाविश्रान्तहरिण.। शकुन्तानां पक्षिणा, निवहै वृन्दै, विष्वक-समन्तात्, विलुप्ताः छिन्ना , छदाः पर्णानि यस्यानी तथाभूत । कीट-सर्पादिभि. आवृतानि-पूर्णानि, कोटराणि यस्मानी तथा । कपिकुलै =वानरयूथै., स्कन्धे प्रकाण्टे, कृत.-प्रश्रयः प्रणयो निवासश्च यस्यामा १. 'काककूर्ममृगावत्' । २ 'निवहरालोननीलच्छद' ति पाठान्तरम् । आलाना: च्याप्ता नीलच्छदाः स्निग्धनीलपत्राणि यस्येति विग्रहः।