पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

एवन्तेन सम्बोधितः पिङ्गलकः सञ्जीवकशोकं त्यक्त्वा दमनकसाचिव्येन राज्यमकरोत् ॥ * इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे मित्रभेदंनाम प्रथमं तन्त्रम् । तेन-दमनकेन। संबोधित =सम्यक् प्रबोधित । सान्त्वित । दमनक- साचिव्येन-दमनकं सचिव कृत्वा । राज्यम्-काननसाम्राज्यम् । मित्रभेदमिति । मित्रयोर्भेदो यस्मिंस्तन्त्रे तन्मित्रभेदमिति विग्रह । मित्र- भेद इति पाठे तु-मित्रयोर्मित्राणा वा भेद -मित्रभेद । उपचाराच्च कथाशोऽपि, मित्रभेद इत्युच्यते इत्यववेयमिति शिवम् ॥ इति श्रीजगद्विदितमाहात्म्य-षट्शास्त्रवाचस्पति-मरुमण्डलमार्तण्ड पण्डितराज- श्रीस्नेहिरामशास्त्रिणा पौत्रेण, 'प्रतिवादिभयङ्करभयङ्कर'-विद्यावाचस्पति- न्यायशास्त्राचार्य-श्री शिवनारायणशास्त्रिणां पुत्रेण, श्रीगुरुप्रसादशास्त्रिणा विरचिताया पञ्चतन्त्रा- ऽभिनवराजलक्ष्म्या मित्रभेदं नाम प्रथमं तन्त्रम् ।