पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ]

  • अभिनवराजलक्ष्मीविराजितम् *

१७३- तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्राणयात्रार्थ पुरमुद्दिश्य प्रचलितो यावत्पश्यति,तावजा- लहस्तोऽतिकृष्णतनु स्फुटितचरण ऊर्ध्वकेशो यमकिडराकारो नरः सम्मुखो बभूव । अथ तं दृष्ट्वा शङ्कितमना व्यचिन्तयत्- 'यदयं दुरात्माऽद्य ममाश्रयवटपादपसंमुखोऽभ्येति, तन्न ज्ञायते, किमद्य वटवासिनां विहङ्गमानां सङ्ख्यो भविष्यति । एवं बहु- विधं विचिन्त्य तत्क्षणानिवृत्य तमेव वटपादपं गत्वा सर्वान्वि हङ्गमान्प्रोवाच-भोः ! अयं दुरात्मालुब्धको जालतण्डुलहस्तः- समभ्येति, तत्सर्वथा तस्य न विश्वसनीयम् , एप जाल प्रसार्य तण्डुलान्प्रक्षेप्स्यति, ते तण्डुला भवद्भिः सर्वैरपि कालकूट- सदृशा द्रष्टव्याः'। एवं वदतस्तस्य स लुब्धकस्तत्र वटतले आगत्य जालं प्रसार्य सिन्दुवारसदृशास्तण्डुलान्प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः। अथ ये पक्षिणस्तत्र स्थितास्ते लघु. पतनकवाक्यार्गलया निवारितास्तांस्तण्डुलान् हालाहलाकुरा- निव वीक्षमाणा निभृतास्तस्थुः। अत्रान्तरे चित्रग्रीवो नाम कपोतराजःसहस्रपरिवारः प्राण- यात्रार्थ परिभ्रमंस्तांस्तण्डुलान्दूरतोऽपि पश्यलघुपतनकेन निवा- र्यमाणोऽपि जिह्वालौल्याद्भक्षणार्थमपतत्, सपरिवारो निबद्धश्च। अथवा साध्विदमुच्यते- तथा । मधुपै मृङ्गै । 'विश्रब्ध'मिति क्रियाविशेषणम् । स एव द्रुम लाघ्यो य. सर्वाङ्ग-वहुसत्त्वसङ्गसुखद =नानाजन्तुविश्रामसुखद । अपर =इतोऽन्यादृशस्तु भूभारभूत एवेत्यर्थ ॥ २ ॥ वायसः=काक । प्राणयात्रार्थ भोजनोपार्जनाय । स्फुटितचरण =विदीर्णपाद । यमेति । यमदूतसन्निभ इत्यर्थ । आश्रयेति । मन्निवासवटवृक्षसम्मुख इत्यर्थ । संक्षय =विनाश । तमेव-स्वनिवासभूतम् । लुब्धक =व्याध । कालकूट तीक्ष्णविपभेद । सिन्दुवारसदृशान् निर्गुण्डीसह- शान्, ईषद्रक्तान् । निमृत -प्रच्छन्न । तत्र-वटपादपे। लघुपतनकवाक्यमेव- अर्गला=निरोधदण्ड , तया हालाहलाकुरानिव-तीक्ष्णविषाङ्कुरानिव । निमृता = विनीता इव । (चुप चाप ) । 'निभृतविनीतप्रश्रिता समा' इत्यमर ।