कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥ ७॥
कृत्वेति ॥ प्रभावेण सह वर्तत इति सप्रभावा महानुभावा शिनेः सात्य- किपितामहस्य चमूः सेना। शाल्वो नाम चैद्यपक्षो राजा तस्य चमूं सेनां जितां कृत्वा । जित्वेत्यर्थः । अत एव वक्त्रैर्मुखैः । येनाङ्गविकारः' (२।३।२०) इति तृतीया । विकासस्यापि विकारत्वात् । फुल्लाब्जस्य प्रफुल्लारविन्दस्य सप्रभा समानप्रभा । हर्षेण विकासितवक्त्रा सतीत्यर्थः । ऊर्जितामुदारां वाचं ससर्ज के यूयमस्मदग्र इत्याधुच्चैर्जगर्ज । जगादेत्यर्थः । उपमायमकयोः संसृष्टिः ॥ ७ ॥
उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंचयम् ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८॥
उल्मुकेनेति ॥ दिक्षु तेजः प्रभावं प्रकाशं च प्रकिरता विक्षिपता उल्मु- केन भागवतेन राज्ञा, अलातेन च संकुचन्ती पत्रसंपद्वाहनसंपत्, पर्णसमृद्धिश्च यस्य तम् । सप्रतापं सपराक्रमं, प्रकटतापसंहितं च । द्रुमं द्रुमाख्यं राजानं, वृक्षं च प्राप्यादीप्यत प्रजज्वले । भावे लङ् । अत्राभिधायाः प्रकृतार्थे नियन्त्रणा- दप्रकृतार्थप्रतीतिर्ध्वनिरेव न श्लेषः ॥ ८॥
पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाचापमुदा युधः ॥ ९ ॥
पृथोरिति ॥ रुक्मी भीष्मकात्मजो रुक्मिणीभ्राता उदायुध उद्यतायुधः सन् यया वाचा पृथो राज्ञश्चापमध्यक्षिपत् धिगिदं वृथा कष्टमिति निनिन्द । अपगता मुद्यस्यास्तयाऽपमुदा निरुत्साहया तयैव वाचा युधो युद्धादपगममपस- रणं ययाच । मां त्राहि पलायमानं शरणागतोऽसीति प्रार्थयामासेत्यर्थः । याचिरुभयपदी ॥९॥
समं समन्ततो राज्ञामापतन्तीरनीकिनीः।
कार्ष्णिः प्रत्यग्रहीदेकः सरस्वानिव निम्नगाः ॥१०॥
सममिति ॥ समं युगपत्समन्तत आपतन्तीरागच्छन्ती राज्ञां चैद्यपक्षाणा- मनीकिनीः सेनाः । कृष्णस्यापत्यं पुमान् कार्ष्णिः प्रद्युम्नः 'अत इञ्' (४।१।९५)। निम्नगा नदीः सरस्वान्समुद्र इवैकोऽसहायः प्रत्यग्रहीत्प्रत्यवरुरोध ॥ १० ॥
दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥११॥
दधानैरिति ॥ लसन्ति आयसान्ययोमयानि दंशनानि वर्माणि येषां तैः । 'तनुत्रं वर्म दंशनम्' इत्यमरः । अत एव घनसादृश्यं कार्पोन्मेघसाम्यं दधानैस्तैः सैनिकैः तत्र कार्ष्णै काञ्चनसच्छाया सुवर्णवर्णा शर एवाशनिः विद्युत्