ससृजे उत्सृष्टा । उपमारूपकयोः संसृष्टिः । ओष्ठ्यवर्णविरहान्निरौष्ठ्यं चित्रभेदः शब्दालंकारः ॥११॥
नखांशुमञ्जरीकीर्णामसौ तरुरिवोच्चकैः ।
बभौ बिभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १२॥
नखेति ॥ नखांशवो मञ्जर्य इव ताभिः कीर्णां व्याप्ताम् । अधिरूढाः शिली- मुखा बाणाः, अलयश्च यस्यां ताम् । 'अलिबाणौ शिलीमुखौ' इत्यमरः । धनु:- शाखेव तां बिभ्रदसौ कार्ष्णिरुच्चकैरुन्नतस्तरुरिव बभौ । तरुरिवेति लिङ्गात्सर्वत्रोप- मितसमासः । शिलीमुखेति श्लिष्टविशेषणेयमुपमा ॥ १२ ॥
प्राप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १३ ॥
प्राप्येति ॥ अरिपूगानां शत्रुसङ्घानामन्तकः अरिपूगान्तकोऽसौ कार्ष्णिः भीमं भयंकरं जन्यं युद्धं प्राप्य । 'युद्धमायोधनं जन्यम्' इत्यमरः । आनते नम्रे सौजन्यं सौहार्दं दधत् न तु विध्यन् । 'न क्लीबं न कृताञ्जलिम्' (मनु० ७।९१) इति निषेधादिति भावः । रिपून्प्रतिपक्षान् शरैर्विध्यन्प्रहरन् न मुमोच । न ररक्षेत्यर्थः । संदंशयमकभेदः ॥ १३ ॥
कृतस्य सर्वक्षितिपैविजयाशंसया पुरः।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥ १४ ॥
कृतस्येति ॥ असौ कार्ष्णिः सर्वक्षितिपैर्विजयाशंसया विजयाकाङ्क्षया पुरोऽग्रे कृतस्य नियुक्तस्य प्रयुक्तस्य वा अनेकस्यानेकाकिनः । ससहायस्येत्यर्थः । अन्य- त्रानेकस्य बहुसंख्यस्य बाणस्य बाणासुरस्य शरजातस्य च बाणैः खण्डनं छेदं चकार । अत्र बाणयोर्द्वयोरपि प्रकृतत्वात्केवलप्रकृतयोः श्लेषः ॥ १४ ॥
या बभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेनाससार ताम् ॥ १५ ॥
येति ॥ या सेना कृतानेकमाया कृतबहुकपटा सती ससारतां सारवत्तां बभार तां सेनां स कार्ष्णिः धनुः कर्षन् । धनुषा विध्यन्नित्यर्थः । आयासेन रहितमनायासं यथा तथा आससार । अभियुक्तवानित्यर्थः । बाणं भङ्क्त्वा तत्सेनां बभञ्जेत्यर्थः ॥ १५॥
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनयन्नाम मुख्यताम् ॥ १६ ॥
ओज इति ॥ महौजा महाबलः प्रद्युम्न उत्तमौजसो नाम राज्ञः ओजस्तरक्षणादेवाधः कृत्वाभिभूय आजौ युद्धे अमुख्यत्वमप्रधानत्वं कुर्वन्, अथवा अमुख्यत्वममुख्यार्थत्वं तन्नाम्नः कुर्वन् नाम निजं प्रद्युम्ननामधेयं मुख्यतां प्रधानतां प्रसिद्धार्थतां चानयत् । प्रकृष्टं द्युम्नं बलं यस्येति प्रद्युम्न इति स्वामी ॥ १६ ॥