पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६८
शिशुपालवधे

जित् । जयतेः क्विप् । जजतीति जाजी योधी । ताच्छील्ये णिनिः । अतितता- नत्युद्धतानतितुदति अतिव्यथयतीत्यतितुत् । तुदतेः क्विप् । भस्याभेवामा यस्य स भाभो नक्षत्रकान्तिः । 'नक्षत्रमृक्षं भं तारा' इत्यमरः । नास्ति भीर्येषां तेऽभियो निर्भीकाः तानिभान्गजानभिभवतीति अभीभाभिभूः । क्विप् । तस्याः भासस्तेजसो भूः स्थानम् अभीभाभिभूभाभूः । अराः सन्त्येषामित्यरीणि चक्राणि तैः रीणन्ति गच्छन्तीति अरिरियो रथाः । ‘री गतिश्लेषणयोः' इति धातोः क्विप् । तेषां ईरं प्रेरणं राति अरिरीररो रथिकः । 'आतोऽनुपसर्गे कः' (३।२।३) अरिः शत्रुर्बलभद्गः तं वेणुदारिणं आर । योद्धुमाससारेत्यर्थः । 'ऋ गतौ' इति धातोर्लिट् द्विर्भावे कृते णलि वृद्धिः अभ्यासस्योरदत्वे 'अत आदेः' (७।४।७०) इति दीर्घ पुनः सवर्णदीर्घः । भिन्नैकाक्षरपादाख्योऽनुप्रासभेदः । भाभ इत्युप- मानुप्रासयोरेकवाचकानुप्रवेशलक्षणसंकरः ॥ ३ ॥

   भवन्भयाय लोकानामाकम्पितमहीतलः ।
   निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ ४ ॥

 भवन्निति ॥ लोकानां जनानां, जगतां च। 'लोकस्तु भुवने जने' इत्यमरः । भयाय भवनसंपद्यमानः । भयं जनयन्नित्यर्थः । 'क्लृपि संपद्यमाने च' (वा०) इति क्लृपेरर्थनिर्देशाच्चतुर्थी । आकम्पितमहीतलः । भूकम्पं कुर्वन्नित्यर्थः । निर्घोषेण भीमो भयंकरः तस्य बलभद्रस्य रथो निर्घात इवापतदधावत् । श्रौती पूर्णोपमा ॥४॥

   रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
   कोपादथैनं शितया महेष्वा स विचक्षणे ॥ ५॥

 राम इति ॥ रिपुर्वेणुदारी आजिमहेषु रणोत्सवेष्विति रूपकम् । 'मह उद्धव उत्सवः' इत्यमरः । विचक्षणे प्रगल्भे । विचष्ट इति कर्तरि ल्युडिति न्यासकारः। 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिङः ख्याञादेशाभावः । रामे बलभद्रे शरान् आस चिक्षेप । अस्यतेर्लिट् 'अत आदेः' (७।४।७०) इत्यभ्यासदीर्चे सवर्णदीर्घः । कोपात्स राम एनं वेणुदारिणं शितया शातया। 'शाच्छोरन्यतरस्याम्' (७।४।४१) इतीत्वम् । महेष्वा महेषुणा । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । विचक्षणे जघान । 'क्षणु हिंसायाम्' इति धातोः कर्तरि लिट् । अभिन्नसमपादो नाम पादाभ्यासयमकभेदः। एवमुत्तरत्रापि द्रष्टव्यम् ॥५॥

   दिशमर्कमिवावाचीं मूर्छागतमपाहरत् ।
   मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥६॥

 दिशमिति ॥ मूर्छागतं रामेषुपातान्मोहमुपगतम् । अत एव मन्दप्रतापमल्पप्रकाशं तं वेणुदारिणमवाचीं दक्षिणां दिशं प्राप्तम् । अत एव मन्दप्रतापमर्कमिव सूतः सारथिरनूरुश्च आजेविहायसः आकाशादिवाजिविहायस इत्युपमितसमासः ।शीघ्रमपाहरदपसारितवान् । उपमा ॥ ६ ॥