प्रेति ॥ अचिरोढसुन्दरी काचिन्नवोढा स्त्री प्रविवत्सतः प्रवासं कर्तुमिच्छतः । वसेः सन्नन्ताल्लटः शत्रादेशः । प्रियतमस्य प्रतिपादयुग्मं पादयुग्मे । विभक्त्यर्थेऽव्ययीभावः । नीलनलिनदलदामरुचि नीलोत्पलमालासच्छायमित्युपमा । निगडमिव शृङ्खलामिव चक्षुनॆत्रमक्षिपत् । प्रैरयदित्यर्थः । चक्षुषो दूरे पदमपि गन्तुं न शशाकेत्यर्थः । तच्च दुर्निमित्तमिति भावः । प्रयाणे रुयवलोकननिषेधात् । उक्तोपमासापेक्षा चक्षुषो निगड़त्वोत्प्रेक्षेति संकरः ॥ ८६ ॥
बजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ।
धैर्यमभिनदुदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ।। ८७॥
व्रजत इति ॥ जनन्याः अपशकुनभीतायाः मातुर्निर्भर्त्सनाद्विवृद्धमन्युना प्रवृद्धकोपेन शिशुना बालकेन हे तात जनक । 'तातस्तु जनकः पिता' इत्यमरः । क्क वजसि कुत्र व्रजसि इत्यस्फुटमुदितमुक्तम् । वदेः कर्मणि क्तः । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । व्रजसीति सरेफपदमपाटवादरेफमुच्चारितमित्यर्थः । तथापि परिचयादभ्यासपाटवागतार्थम् । पितृभ्यां केवलावगताभिधेयं वचनमिति शेषः । व्रजतः प्रस्थातुः धैर्य ग्रयाणोत्साहमभिनत् । गमनकारिणो दुर्निमित्तत्वादिति भावः । उक्तं च योगयात्रायाम्-'यानात्पुरा निपतनं बृह- तीव काचिद्गर्भेण भारबृहती स्वपुरःस्थिता स्त्री । आगच्छ तिष्ठ कुत इत्यलमर्थवाचिशब्दाश्च राजगमने प्रतिषेधकाः स्युः ॥' इति । अत्र दंपत्योर्दैन्यविषाचिन्ताशङ्कादयः संचारिणोऽनुसंधेयाः ॥ ८७ ॥
शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ण्ययाऽपरा ॥ ८८ ॥
शठेति ॥ अपरा स्त्री रणरागिणं युद्धोत्साहिनं रमणं हे शठ वञ्चक, नाकलोकललनाभिः । अप्सरोभिः सहेत्यर्थः । सहयुक्तेऽप्रधाने' (२।३।१९) इति सहार्थे तृतीया, वृद्धो यूनेतिवत् । अविरतरतमविच्छिन्नसुरतं यथा भवति तथा रिरंससे रन्तुमिच्छसि । रमेः सन्नन्ताल्लट् । 'पूर्ववत्सनः' (१।३।६२) इत्यात्मनेपदम् । तेनाप्सरोरिरंसाकरणेन मुदं वहसीति ईर्ष्यया सापत्रयाक्षमया अवदत् । अर्थाद्विरहासहनया प्रस्थानप्रतिषेधपरया व्याहृतमिदमेवास्य मरणशंसिनी दुरुपश्रुतिरिति भावः । ईर्ष्यात्र कण्ठोक्त एव संचारी ॥ ८८ ॥
ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ।। ८९ ।।
ध्रियमाणमिति ॥ दयिते चलति प्रतिष्ठमाने सति नतभ्रवः वध्वाः अश्रु ध्रियमाणममङ्गलभिया धार्यमाणमपि । धरतेः कर्मणि लटः शानजादेशः । अगलत् अस्रवत् । शोकातिरेकाद्धारयितुमशक्यमासीदित्यर्थः । तथा हि-अकृतकरसमकृत्रिमरागं स्नेहं प्रेम दधताम् अतएव अतिमुग्धचेतसामत्यन्ताकपटबुद्धीनामिदमेवासंवरणं युक्तम् । अन्यथा स्नेहव्याघातेन तत्कालविरुद्धमश्रुमोचनं नानु