पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
शिशुपालवधे

चितमिति भावः । रसस्नेहयो रागप्रेमापरनाम्नोरवस्थाभेदाद्भेदः । । 'रागस्तसंबन्धी प्रेम तद्वियोगासहिष्णुता' इति रससागरे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८९॥

 सह कज्जलेन विरराज नयनकमलाम्बुसंततिः ।
 गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः॥९०॥

 सहेति ॥ सुतनोः शुभाङ्गयाः गण्डफलकमभितः । गण्डस्थलयोरित्यर्थः । 'अभितःपरित:-' (वा०) इत्यादिना द्वितीया । नयनकमलाम्बुसंततिरश्रुधारा कज्जलेनाञ्जनेन सह शोक एव शोकमयस्तस्य कृष्णवर्त्मनः शोकाग्नेः पदवी निःसरणमार्ग इव विरराज शुशुभे । येन वर्त्मना अग्निर्गच्छति तत्कृष्णं भवतीति कृष्णवर्त्मा । अत्राप्यश्रुपात एव दुर्निमित्तमिति भावः ॥ ९० ॥

 क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रवः ।
 स्रस्तभुजयुगगलद्वलयस्खनितं प्रति क्षुतमिवोपशुश्रुवे ॥ ९१ ॥

 क्षणेति ॥ कतिपयं च तत्पदं च तत् । जातावेकवचनम् । कतिचित्पदानीत्यर्थः । पदशब्दस्य तदवच्छिन्नदेशवाचित्वादत्यन्तसंयोगे द्वितीया । चलितेन प्रस्थितेन । केनचिदिति शेषः । क्षणमात्रमरोधि क्षणमात्रप्रतिबन्धकम् । प्राणदानकजीविनामवसरे सत्यधिकं स्थातुमनौचित्यादिति भावः । नतभ्रुवः स्रस्तानामगसादेन झटिति प्रकोष्ठाग्रे पतितानां भुजयुगगलद्वलयानां हस्तद्वयचलत्कङ्कणानां स्वनितं रणत्कारं प्रति प्रतिमुखं क्षुतमिवोपशुश्रुवे उपश्रुतम् । 'स्त्री क्षुक्षुतं क्षवः पुंसि' इत्यमरः । रणत्कारे क्षुतभ्रान्त्या निवृत्तम् । क्षणमात्रं स्थितमित्यर्थः । अक्षुते क्षुतभ्रान्त्या भ्रान्तिमदलंकारः । दैन्यविषादाख्याः संचारिणः ॥ ९१ ॥

 अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
 भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥९२॥

 अभीति ॥ वल्लभतमस्य प्रियतमस्याभि वर्त्माभिमार्गं विगलदङ्गसादात्त्रंसमानममलमायतं चांशुकं वस्त्रं यस्याः, अन्यत्र विगलन्तो विशीर्यमाणा अमला उज्ज्वलाः आयता दीर्घीभूता अंशवो रश्मयो यस्याः सा । शैषिक: कप्रत्ययः । भूमिर्नभ इव तस्मिन्भूमिनभसि रभसेन वेगेन यती यान्ती । इणः शतरि 'उगितश्च (४।१।६) इति ङीप् । काचनाङ्गना महोल्कया समं सदृशं विरराज । अत्र प्रस्थातुरग्रे स्वकान्ताया महोल्कासादृश्यभवनमेव दुर्निमित्तमिति भावः । उपमालंकारः ॥ ९२॥

 समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः ।
 दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे ॥९३॥

 समरेति ॥ नृपगणे समरोन्मुखेऽपि तस्य नृपगणस्यानुमरणे सहमरणे उद्यतोधुक्ता अत एवैका मुख्या धीर्यस्य सः । दीनेनाप्यशोच्येन परिजनेन कृताश्रुजलो मुक्तबाप्पः । दासीमुक्ताश्रुबिन्दुरित्यर्थः । तथापि स्वयं स्थिरमना अचलितचित्तो