पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
शिशुपालवधे

देवाप्रसन्नदृष्टेः । कस्याश्चिदिति शेषः । मदमपास्य तदुत्पत्तिं प्रतिरुध्य तदीयं गुणं तद्धर्मम् । मदकार्यभूतमित्यर्थः । अङ्गसादमङ्गशैथिल्यं कपोलयोररुणत्वमसकलमसमाप्तं वाक्यं चात्मना स्वयम् । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । भृशं विदधुः । करुणेन शृङ्गारस्तिरस्कृत इत्यर्थः । अत्र मदाभावेऽपि तत्कार्योदयात्तस्यावलोकननिमित्तकत्वोक्त्या उक्तनिमित्ताख्यो विभावनाभेदः ॥ ८२ ॥

 सुदृशः समीकगमनाय युवभिरथ संबभाषिरे ।
 शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ ८३ ॥

 सुदृश इति ॥ अथास्मिन्नवसरे युवभिः समीकगमनाय युद्धगमनाय । 'समीकं सांपरायिकम्' इत्यमरः । सुदृशः शोकपिहिते शोकावृते गले कण्ठे रुद्धगिरः प्रतिबद्धोत्तरवाचस्तथापि तरसा वेगेनागतमश्रुजलमेव केवलं निर्णीतमुत्तरं यासां ताः । 'निर्णीतं केवलं चोक्तम्' इति विश्वः । संबभाषिरे संभाषिताः । योद्धं गच्छामेत्यामन्त्रिताः । 'हा कष्टमिदमेवान्तिमदर्शनम्' इति वाक्यभेदेऽप्यश्रुपातेनैवानक्षरं दत्तोत्तराश्चासन्नित्यर्थः । अत्राप्यश्रुपातो दुर्निमित्तमिति भावः । एतेन गन्तव्यं चेद्गम्यतां, वयं च युष्मत्सालोक्यकामा इत्यनिष्टविध्याभासरूपाक्षेपालंकारो व्यज्यते । अनिष्टविध्याभासश्चेति सूत्रेणेष्टनिषेधाभासवदस्यापि लक्षणात् ॥ ८३॥

 विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
 पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥ ८४ ॥

 विपुलेति ॥ जिगमिषुभिर्युद्धाय गन्तुमिच्छुभिः । प्रियैः कर्तृभिः अङ्गनाः विपुलं यदचलस्य स्थलं तद्वद्धनेन दृढेनोरसा निजवक्षसा करणेन पीने कुचतटे निपीडो नितरां पीडनं तेन दलन्तो विदीर्यमाणा वराः श्रेष्ठा वारबाणाः कञ्चुका यस्मिन्कर्मणि तद्यथा तथा । 'कञ्जुको वारबाणोऽस्त्री' इत्यमरः । आलिलिगिरे आलिङ्गिताः । अत्र वारबाणानां दलनासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥८४॥

 न मुमोच लोचनजलानि दयितजयमङ्गलैषिणी ।
 यातमवनिमवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥८५॥

 नेति ॥ दयितस्य जयमङ्गलम् । तदर्थमङ्गलमित्यर्थः । अश्वघासादिवत्तदर्थे षष्ठीसमासः । तदिच्छतीति तदेषिणी विलासिनी काचिदङ्गना लोचनजलान्यश्रूणि न मुमोच । अश्रुपातस्यामङ्गलत्वादिति भावः । अमङ्गलं तदन्यतः प्रवृत्तमेवेत्याह- यातमिति । अवसन्नभुजाच्छोकशिथिलात्कराद्गलद्भ्रश्यदेवावनिं भुवं यातं प्राप्तं वलयं कङ्कणं न विवेद । अवश्यभाविनां को निवारक इति भावः । एषा च दैन्यचिन्तेति । अत्रावसादस्य विशेषणगत्या वलयपातहेतुत्वात्काव्यलिङ्गम् ॥ ८५ ॥

 प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् ।
 नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ ८६ ॥