त्थितेन आनन्देन विस्मृतास्मि । इदानीं पुनः महेन्द्रसङ्कीर्तनेन मम हृदये स्थितं समयेन ।]
राजा-कथ्यतां समयः।
उर्वशी-अहं पुरा महाराअगहिदहिअआ गुरुसावसंमूढा महिंदेण अवधीकदुअ अब्भणुण्णादा।[अहं पुरा महाराजगृहीतहृदया गुरुशापसम्मूढा महेन्द्रेण अवधीकृत्याभ्यनुज्ञाता।]
राजा-किमिति ।
उर्वशी-जदा मम सो पिअवअस्सो तुइ समुप्पणसुदस्स मुहं पेक्खिदि तदा मम समीवं तुए आअंतव्वं त्ति । तदो मए महाराअविओअभीरुदाए जादमेत्तो एव्व विज्जागमणिमित्तं अ भअवदो चवणस्स अस्समपदे एसो पुत्तओ अज्जाए सञ्चवदीए हत्थे आप्पणा णिक्खित्तो । अज्ज उण पिदुणो आराहणसमत्थो संवुत्तो त्ति काउण णिज्जादिदो एसो दीहाऊ आऊ । एत्तिको मे महाराएण सह संवासो। [यदा मम स प्रियवयस्यस्त्वयि समुत्पन्नसुतस्य मुखं प्रेक्षते तदा मम समीपं त्वया आगन्तव्यमिति । ततो
महेन्द्रस्य पुरन्दरस्य सङ्कीर्तनेन नामग्रहणेन मम हृदये समयेन कालावधिना स्थितम् । या समयमर्यादा पुरा कृताऽऽसीत्सा इदानीं पूर्वस्मिन् पद्ये कीर्तितेन इन्द्रनाम्ना मम स्मृतिपथमवतीर्णा । तेन चाहं रुदिताऽस्मि ।
राजा-कथ्यतां समयः कालावधिः। “समयः शपथाचारकालसिद्धान्तसंविदः" इत्यमरः।
उर्वशी-अहं पुरा महाराजेन गृहीतं हृदयं यस्याः तादृशी महाराजसंलग्नचित्ताभिनिवेशा गुरुशापसंमूढा गुरोः भरताचार्यस्य शापेन (द्वितीयाङ्कगतकथाऽत्रानुसन्धेया।) संमूढा विस्मृतात्मा महेन्द्रेण अवधीकृत्य कालावधिं निश्चित्य महाराजेन सार्धं उषितुमभ्यनुज्ञाता । आसम् इति शेषः ।
राजा-किमिति कियत्कालपर्यन्तो हि सः अवधिः ।
उर्वशी-अवधिं वर्णयन्ती पुत्रगोपनकारणमुद्घाटयति-महेन्द्रेणोक्तमासीद्यत् यदा मम स प्रियवयस्यो महाराजः त्वयि समुत्पन्नस्य जातस्य सुतस्य मुखं प्रेक्षते तदा मम समीपं त्वया आगन्तव्यम् । मय्युत्पन्नपुत्रदर्शनावसानाकालावधिरित्यर्थः । ततः पश्चात् मया महाराजेन सह जन्यमानस्य वियोगस्य विरहस्य भीरुतया भीतया जातमात्र एवायं पुत्रकः विद्या लौकिकी आगमाः