पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४७
पञ्चमोऽङ्कः

मया महाराजवियोगभीरुतया जातमात्र एव विद्यागमनिमित्तं च भगवतश्च्यवनस्य आश्रमपदे एष पुत्रकः आर्यायाः सत्यवत्याः हस्ते आत्मना निक्षिप्तः । अद्य पुनः पितुराराधनसमर्थः संवृत्त इति कृत्वा निर्यातित एष दीर्घायुरायुः । एतावान् मम महाराजेन सह संवासः।]

(सर्वे विषादं नाटयन्ति । राजा मोहमुपगच्छति ।)

 सर्वे-समस्ससदु समस्ससदु महाराओ । [समाश्वसितु समाश्वसितु महाराजः।]

 कञ्चुकी-समाश्वसितु महाराजः ।

  विदूषकः -अब्बम्हणं अब्बम्हणं । [अब्रह्मण्यम् अब्रह्मण्यम् ।

 राजा-(समाश्वस्य) अहो! सुखप्रत्यर्थिता दैवस्य ।


शास्त्राणि तेषामध्ययननिमित्तम् भगवतः च्यवनस्य आश्रमरूपिणि पदे स्थाने एष आयुरार्यायाः मान्यायाः सत्यवत्यास् तापस्याः हस्ते आत्मना स्वयं निक्षिप्तः स्थापितो न्यासीकृतो वा। अद्य पुनः इति वाक्यालङ्करणे । पितुर्महाराजस्य आराधने सेवायां समर्थः अयं संवृत्तः इति कृत्वा अनेन हेतुना एष दीर्घायुः चिरजीवी आयुः निर्यातितः प्रत्यर्पितः । एतावान् एतावत्कालावधिरेव महाराजेन सह मम संवासः सहवास इति स्मृत्वा अहमरोदम् । अधुना वियोगो भवितेति भावः । एतत्कालपर्यन्तमेव महाराजेन सहोषितुमभ्यनुज्ञाताऽस्मि महेन्द्रेणेति सारः । अत्रोर्वश्या स्वात्मजगोपनहेत्वनुभवप्रकाशनादनुभूत्याख्यं निर्णयोनाम निर्वहणसन्ध्यङ्गमुक्तं भवति ।

(सर्वे श्रोतारो विषादं खेदं नाटयन्ति रूपयन्ति ।)

 सर्वे-समाश्वसितु समाश्वसितु महाराजः । अत्र राजा मूर्च्छति दयिताया गुरुवियोगं अनुभूतपूर्वं पुनरनुभवितुमसमर्थः भृशं खेदेन विसंज्ञतामलभत ।

 कञ्चकी-समाश्वसितु महाराजः ।

 विदूषकः-अब्रह्मण्यम् अब्रह्मण्यम् । महान् खलु अनर्थः संवृत्त इति अर्थबोधे अव्ययमिदम् । “अब्रह्मण्यमवध्योक्तौ" इत्यमरः ।

 राजा-(समाश्वस्य संज्ञा लब्ध्वा) अहो! दैवस्य भाग्यस्य सुखप्रत्यर्थिता सुखपराङ्मुखता । यदैकं सुखमुपनतम् द्वितीयं दुःखमापतितमित्यर्थः ।