सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४८
विक्रमोर्वशीये

आश्वासितस्य मम नाम सुतोपलब्ध्या
 सद्यस्त्वया सह कृशोदरि विप्रयोगः ।
व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या
 वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयम् ॥ १६ ॥

 विदूषकः-अअं सो अत्थो अणत्थानुबन्धीत्ति तक्केमि तत्तभवदा वक्कलं गेण्हिअ तवोवणं गन्तव्वं त्ति । [अयं स अर्थः अनर्थानुबन्धीति तर्कयामि तत्रभवता वल्कलं गृहीत्वा तपोवनं गन्तव्यमिति ।]

 उर्वशी-हा हदम्हि मन्दभाआ। मं वि किदविणअस्स पुत्तअस्स लम्भणाणन्तरं सग्गारोहेणेण अवसिदकज्जां विप्पओअमुहीं महाराओ समत्थइस्सदि । [हा हतास्मि मन्दभाग्या । मामपि


 आश्वासितस्येति-कृशमुदरं यस्याः सा तादृशि तनुमध्ये ! नाम प्राकाश्ये ! सुतोपलब्ध्या पुत्रप्राप्त्या आश्वासितस्य सन्तोषितस्य कृतसान्त्वनस्य वा मम सद्यस्तस्मिन्नेव समये त्वया सह अयं विप्रयोगो विरहः प्रथमाभ्रवृष्ट्या प्रथममेघवर्षया व्यावर्तिता निर्वापिता आतपजन्या रुग् यस्य तादृशस्य दूरीकृतोष्मपीडस्य वृक्षस्य वैद्युतः तडित्सम्बंधी अग्निरिवोपस्थितः ।

 यथा प्रथमं नवमेघेन कृते त्वीषद्वर्षे दूरीकृतसूर्यातपत्रासस्य वृक्षस्य कृते तडिज्जन्योऽग्निस्त्रासाय भवति तथैवेदानीं निरपत्यस्य मम सुतलाभेनेषज्जातसान्त्वनस्य कृते त्वया सह गुरुरसह्यो वियोगः सम्प्राप्तः । काञ्चित् शान्तिमुपलभ्य पुनः क्लेशो यथा भृशं दुःखदो भवति तथैव सुतप्राप्त्यनन्तरं त्वया सह विरहवादः । “नाम प्राकाश्य सम्भाव्य क्रोधोपगमकुत्सने" इति त्रिकाण्डी । "आतपो रश्मिमात्रे स्यात्सूर्यरश्मौ च दृश्यते" इति धरणिः । अत्र उदरशब्दः लक्षणया कटिरूपेऽर्थे बोध्यः ।

 अत्र बिम्बप्रतिबिम्बानुप्राणिता लुप्तोपमालङ्कृतिः । यथा वैद्युताग्निः वृक्षं प्रकामं दहति तथैव मम मनः अनेन विरहाग्निना दंदह्यत इति व्यङ्ग्यम् उभयोरसह्यत्वात् । वसन्ततिलका वृत्तम् ॥ १६ ॥

 विदूषकः-अयं सः सुतोपलब्धिरूपः अर्थः अनर्थानुबन्धी अनिष्टकारी विद्यते इति तर्कयामि । यदा एकोऽर्थः सम्पन्नः तदा अन्योऽन्यथा संवृत्तः । अतः इति हेतोः तत्र भवता इदानीम् वल्कलं गृहीत्वा मुनिवेषं धृत्वा तपोवनं तपसे गन्तव्यमुचितम् ।

 उर्वशी-हा इति खेदे। मन्दभाग्या अहं हताऽस्मि । कृतविनयस्य सम्पादितशिक्षस्य पुत्रकस्य लम्भानन्तरम् लाभानन्तरम् स्वर्गारोहेण अवसित-