सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९५
चतुर्थोऽङ्कः

स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा
 सर्वं मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः ॥ ४७ ॥

 सुखमास्तां भवान् । (द्विपदिकया परिक्रम्यावलोक्य च) अये ! अयमसौ सुरभिकन्दरो नाम विशेषरमणीयः सानुमान् । प्रियश्चायमप्सरसाम् । अपि नाम सुतनुरस्योपत्यकायामुपलभ्येत ।


सन्तता वा पृथ्वी भूयसी प्रवृत्तिरुद्गमो यस्य तादृशमस्ति । सन्ततप्रवाहि तव दानम् । तथैव ममापि अर्थिषु याचकेषु दानं वितरणं त्यागो वा अव्युच्छिन्ना सन्तता पृथ्वी बहुला प्रवृत्तिः प्रसारो यस्य तत् अस्ति । त्वया दानं मदवारि अर्थिभ्यः भृङ्गेभ्यः सन्ततं दीयते । मयाऽपि भूरिदानं याचकेभ्यः दीयते । स्त्रीरत्नेषु प्रमदाललामभूतेषु उर्वशी मम प्रियतमा । तव च इयं वशा करिणी यूथे प्रियतमा । प्रमदासु मम उर्वशी प्रिया इयं च करिणी यूथे ते प्रिया । अत्रापि तव च मम च सादृश्यम् । माम् अनु मत्सदृशं ते तव सर्वं अस्ति । तव मम च सर्वतः साम्यम् । किन्तु त्वं प्रियायाः विरहेण जन्यां व्यथा पीडाम् अहमिव मा अनुभूः ज्ञासीः ।

 भावस्तु-यथा त्वं नागाधिराजः तथा अहमपि राजाधिराजः । यथा भृङ्गेभ्यः त्वया अविच्छन्नं दानम् (मदवारि ) दीयते तथैव याचकेभ्यः मया अविरतं दानं (वितरणम् ) क्रियते । यथा तव यूथे इयं करिणी प्रियतमा तथैव ललनासु उर्वशी मम प्रियतमा । इत्येवं सर्वं त्वयि मयि च समानम् । किन्तु त्वं प्रियासनाथः अहं प्रियावियुक्त इदमेव न्यूनत्वमिति हा हा ! इति तात्पर्यम् ।

 अत्रोपमेयस्य राज्ञः प्रियासान्निध्याभावरूपापकर्षप्रदर्शनान्न्यूनत्वपर्यवसायी व्यतिरेकालङ्कारः-यदुक्तं कुवलयानन्दे “व्यतिरेको विशेषश्चेदुपमानोपमेययोरिति । "प्रवृत्तेः प्रवाहप्रसृतिवाचकत्वेन व्यर्थित्वात् श्लेषालङ्कारश्च । स्त्रीषु श्रेष्ठा स्त्रीरत्नम् "जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते” इति । “दानं गजमदे त्यागे" इति अमरः । वशा करिणी “वशा योषासुतावन्ध्यास्त्रीगुर्वीकरिणीष्वपि" इति विश्वलोचनः । प्रवृत्तिः प्रवाहः, प्रसारश्च "प्रवाहे वृत्तवृत्तान्ते प्रसारोदन्तयोरपि । प्रवर्तने च वार्तायां प्रवृत्तिः समुदीरिता" इति वचनात् । अधिराज इति राजाहःसखिभ्यष्टजित्यनेन टच्प्रत्ययः ।

 शार्दूलविक्रीडितं वृत्तम् । अत्र च प्रथमचरणे आदौ स्वस्य अवस्था पश्चात् गजस्योक्ता तथैव च तृतीयेऽपि किन्तु तादृशस्य प्रक्रमस्य द्वितीयचरणे विरुद्धत्वात् भग्नप्रक्रमतादोषप्रसङ्गः ॥४७॥

 सुखं प्रसनतया भवान् आस्तां तिष्ठतु । (द्विपदिकया परिक्रम्य विलोक्य च) अये ! विस्मये । अयं पुरो दृश्यमानः असौ सुरभयः कन्दराः दर्यः यस्य तादृशः सुरभिकन्दरभिधानः विशेषेण रन्तुं योग्यः रमणीयो मनोहरो, सानुशिखरं अस्यास्तीति सानुमान पर्वतः दृश्यते । अयं च गिरिः अप्सरसां प्रियः।