पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९६
विक्रमोर्वशीये

 (परिक्रम्यावलोक्य च ) कथमन्धकारः । भवतु विद्युत्प्रकाशेनावलोकयामि । कथं मदीयैर्दुरितपरिणामैः मेघोदयोऽपि शतहदाशून्यः संवृत्तः । तथापि शिलोच्चयमेनमपृष्ट्वा न निवर्तिष्ये ।

(अनन्तरे खण्डिकः)

पसरिअखरखुरदारिअमेइणि वणगहणे अविचलु ।
परिसप्पइ पेच्छह लीणो णिअकज्जुज्जुअ कोलु ।
[प्रसृतखरखुरदारितमेदिनिर्वनगहनेऽविचलः ।
परिसर्पति पश्यत लीनो निजकार्योद्युक्तः कोलः ॥४८॥]


अपि नामेति सम्भावनायाम् । सुसम्भवमिदं यत् सुतनुः मम प्रिया अस्य पर्वतस्य उपत्यकायामासन्नायां भूमौ उपलभ्येत प्राप्येत । अत्र प्राप्तिर्नाम नाट्यलक्षणम् । "उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका" इत्यमरः; "उपाधिभ्यां त्यकन्नासन्नारूढयो"रित्यनेन आसन्नार्थे उपोपसर्गात्त्यकन्प्रत्ययः ।

 (परिक्रम्यावलोक्य च ) कथमन्धकारस्तिमिरम् ? भवतु विद्युतः सौदामिन्याः प्रकाशेन अवलोकयामि । “तडित् सौदामिनी विद्युत्" इति कोषः । कथं मदीयैः दुरितानां पापानां परिणामैः फलैः मेघोदयोऽपि शतह्रदया विद्युता शून्यः संवृत्तः । शतं ह्रदा अर्चींषि यस्याम् इति शतह्रदा अच्प्रत्ययः । “शतह्रदा स्त्रियां वज्रे सौदामिन्यां च कीर्तितेति" । विद्युता हीनोऽयं मेघोदय इति स्वप्रारब्धं दूषयति । यद्यपि अन्धकारघनमिदं स्थलम्, विद्युतामपि प्रकाशेन हीनो मेघोदयस्तथापि शिलोच्चयं पर्वतमेनमपृष्ट्वा मत्प्रियोदन्तं अननुयुज्य न निवर्तिष्ये। अत्र उन्मत्तावस्थागतो हठः प्रतिपाद्यते ।

 अनन्तरे खण्डिका गीतिविशेषः “पर्यायेण शनैस्तिर्यङ् नतमुक्तं धुतं शिरः श्रीरागकुम्भतालेन निबद्धा खण्डिका मता" ॥ कुम्भतालश्च 'कामबाणद्रुता यत्र अर्धचन्द्रस्ततः परम् । दविरामो लघुश्चैकः बिन्दुश्वार्धद्रुतो भवेत्' इति ॥ दविरामस्तु-“दविरामो लघुद्वन्द्वद्रुतो लघुविरामवान्" ॥

 अथ वराहमिषेणान्योक्त्या आह-

 प्रसृतेति-अविचलः धीरः निजे कार्ये कन्दमूलान्वेषणरूपे उद्युक्तः सन्नद्धः वनगहने लीनः प्रसृतैः दीर्घैः खरैस्तीक्ष्णैः खुरैः दारिता उत्खाता मेदिनी भूः येन तादृशः कोलो वराहः परिसर्पति इतस्ततः भ्रमतीति पश्यत! राज्ञः पक्षे तु धीरः क्रीडार्थं वनगहने लीनः प्रियतमया वियुक्तः तदन्वेषणरूपकार्ये निजे उद्युक्तः कृतयत्नः विरहेण सन्तप्तः हस्तपादेन पृथ्व्यामास्फालनं कुर्वन् इतस्ततः परिभ्रमतीति पश्यत।

 इह वराहमिषेण स्वावस्थायाः वर्णनात् अन्योक्तिः । वराहस्य क्षुधितस्येहः स्वभाववर्णनात् स्वभावोक्तिरलङ्कारः । अत्र पूर्वं प्रवृत्तां शिलोच्चयवर्णनां विहाय कोलवर्णनं उन्मत्तस्वजन्यं विप्रलम्भोपस्कारकं भवति ॥४८॥