(प्रेष्योपनीतयोरासनयोरुपविष्टौ)
राजा -लातव्य । आहूयतामुर्वशी।
कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः)
राजा-(कुमारमवलोक्य) एह्येहि वत्स!
सर्वाङ्गीणः स्पर्शः सुतस्य किल तेन मामुपनतेन । |
तापसी-जाद णन्देहि पिदरम् । [जात ! नन्दय पितरम्।]
(कुमारो राजानमुपसर्पति)
राजा-(आलिङ्ग्य ) वत्स ! प्रियसखं ब्राह्मणमशङ्कितो वन्दस्व।
(प्रेष्येण भृत्येन उपनीतयोरानीतयोरासनयोः
तापसीकुमारौ उपविष्टौ निषण्णौ)
राजा-लातव्य कञ्चुकिन् ! आहूयतामुर्वशी।
कञ्चुकी-यदाज्ञापयति देवः । (इति निष्क्रान्तः)
राजा-(कुमारमवलोक्य ।) एहि एहि वत्स ।
सर्वाङ्गीण इति-
सुतस्य स्पर्शः पुत्रगात्रेण संस्पर्शः सर्वाङ्गीणः सर्वदेहव्यापी खलु । पुत्रगात्रसम्पर्कजन्यं सुखम् सकलदेहं व्याप्नोतीति भावः । सर्वं च तदङ्गं सर्वाङ्गम् तद्व्याप्नोति इत्येवं शीलः सर्वाङ्गीणः सर्वाङ्गव्यापी “तत्सर्वादेः" इत्यनेन स्वप्रत्ययः। किलेति सामान्यवस्तु प्रतिपादने ऐतिह्ये वा । सौभाग्यतः उपनतेन प्राप्तेन तेन सम्पर्कजन्यसुखेन मां आह्वादयस्व सुखय । मम प्रारब्धवशात् लब्धेन अनेन पुत्रगात्रसम्पर्कसुखेन मां प्रीणयेत्यर्थः । तत्रोपमानं आह-यथा चन्द्रकरः चन्द्रमसः करः किरणः चन्द्रकान्तं मणिं आह्वादयति द्रवयति । यथा चन्द्रकिरणसंस्पर्शन चन्द्रकान्तमणिर्द्रवति तथैव तवाङ्गसंस्पर्शसुखेन अहमप्यानन्दोदधिनिमग्नो भविष्यामीत्यर्थः ।
इदमेवाह कश्चन कविः-"सुप्रसिद्धमिदं लोके चन्दनं खलु शीतलम् । पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ।” अत्रोपमालङ्कारश्च । अनुष्टुब् वृत्तम् ॥ ११॥
तापसी-जात वत्स ! पितरम् जनकम् नन्दय आनन्दय सुखयेत्यर्थः ।
(कुमारो राजानमुपसर्पति उपगच्छतीति भावः)
राजा-(आलिङ्ग्य) वत्स ! प्रियसखं मम प्रियवयस्यं एनं ब्राह्मणं अशङ्कितो निर्भीकः सन् वन्दस्व प्रणम । अत्र विदूषकस्य ब्राह्मणत्वप्रतिपादनेन पूज्यत्वम् वन्द्यत्वं च व्यज्यते । ब्राह्मणवन्दनादिकस्य समुदाचारस्य उपदेशः राज्ञः न्यायपथप्रवर्तकत्वं व्यनक्ति।