पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३८
विक्रमोर्वशीये


 राजा-सनाथः खलु संवृत्तः ।

 तापसी-अज्ज फुल्लसमिधकुसणिमित्तं इसिकुमारेएहिं सह गदेण इमिणा अस्समवासविरुद्धं समाअरिदं । [अद्य पुष्पसमित्कुशनिमित्तं ऋषिकुमारकैः सह गतेनानेनाश्रमवासविरुद्धं समाचरितम् ।]

 विदूषकः-कधं विअ ? [कथमिव ?]

 तापसी-गहीदामिसो किल गिद्धो अस्समपादवसिहरे णिलीअमाणो लक्खीकिदो बाणस्स । [गृहीतामिषः किल गृध्रः आश्रमपादपशिखरे निलीयमानो लक्ष्यीकृतो बाणस्य ।]

 राजा-ततस्ततः ।

 तापसी-तदो उवलद्धवुत्तन्तेण भअवदा चवणेण अहं समादिट्ठा णिज्जादेहि एदं उव्वसीहत्थे णासं त्ति । ता उव्वसीं पेक्खिदुं इच्छामि । [तत उपलब्धवृत्तान्तेन भगवता च्यवनेनाहं समादिष्टा निर्यातयैनं उर्वशीहस्ते न्यासमिति । तदुर्वशीं प्रेक्षितुमिच्छामि ।]

 राजा-तेन ह्यासनमनुगृह्णातु भगवती ।


 राजा-सनाथः खलु संवृत्तः, भगवत्या धात्रीकर्मग्रहणेन, भगवता च्यवनेन च जनककर्मपरिग्रहेण अनुगृहीतोऽयमित्यर्थः ।

 तापसी-अद्य पुष्पसमित्कुशनिमित्तं होमीयवस्तुग्रहणाय ऋषिकुमारकैः सह गतेन अनेन आयुषा आश्रमवासविरुद्धं सात्विकाचरणप्रतिकूलं समाचरितम् ।

 विदूषकः-कथमिव किं तदस्याचरणमाश्रमविरोधि ।

 तापसी-गृहीतामिषः गृहीतमांसखण्डः गृध्रः आश्रमस्य सन्निकटवर्तिनः पादपस्य तरोः शिखरे निलीयमानः सुप्तः अनेन बाणस्य लक्ष्यीकृतो हत इत्यर्थः । आचरणमिदं आश्रमावासप्रतिकूलमित्यर्थः ।

 राजा-ततस्ततः किं जातम् ।

 तापसी -ततः उपलब्धवृत्तान्तेन ज्ञातगृध्रवधसमाचारेण भगवता च्यवनेन अहं समादिष्टा आज्ञापिता यदेनं न्यासं निक्षेपं उर्वशीहस्ते निर्यातय प्रत्यर्प्य मुक्ता भव । अतः उर्वशी प्रेक्षितुं मिलितुमिच्छामि । न्यासस्य प्रत्यर्पणं निर्यातनम् । “दाने न्यासार्पणे वैरशुद्धौ निर्यातनं मतमिति" मुक्तावली ।

 राजा-तेन आसनमनुगृह्णातु स्वीकरोतु भगवती ।